संस्कृत-शब्दकोशः

विडङ्ग विडम्बना

विडम्बन

वाचस्पत्यम्

विडम्बन ||‍ न० वि—डवि + ल्युट् । १ तिरस्करणे २ अनुकरणे च । युच् । विडम्बनाप्यत्र स्त्री । “इयञ्च तेऽन्या पुरतो विड- म्बनेति” कुमारः ।


शब्दकल्पद्रुमः

विडम्बनं || क्ली (वि + डम्ब + ल्युट् ।)
अनुकरणम् । यथा, —
“न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद्दयितोऽस्ति कर्हिचि- द्द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥” इति श्रीभागवते । १ । ८ । २९ ॥ प्रतारणम् । यथा, तत्रैव । “जन्म कर्म्म च विश्वात्मन्नजस्याकर्त्तुरात्मनः । तिर्य्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥” ३० ॥



Correction: