संस्कृत-शब्दकोशः

विपूय विप्रकर्ष

विप्र

वाचस्पत्यम्

विप्र ||‍ पु० वप—रन् पृषो० अत इत्त्वम् वि + प्रा पूर्त्तो—क वा । १ ब्राह्मण अमरः “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यत । विद्यबयाति विप्रत्व त्रिभिः श्रोत्रियौच्यते” प्रा—वि० वाक्यम् २ अश्वत्थे राजनि० ३ विशेषेण पूरके त्रि०


शब्दकल्पद्रुमः

विप्रः || पुं, (वप + “ऋज्रेन्द्राग्रवज्रेति ।” उणा० २ । २८ । निपातनात् रप्रत्ययेन साधुः ।)
ब्राह्मणः । इत्य- मरः । विशेषेण प्राति पूरयति षट् कर्म्माणि विप्रः । प्रा ल पूर्त्तौ इत्यस्मात् डप्रत्ययः । किंवा । उप्यते धर्म्मबीजमत्र इति वपेर्नाम्नीति रे निपातनादत इत्वम् । इति भरतः ॥ तस्य लक्षणं यथा, —
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् ॥” इति प्रायश्चित्तविवेकः ॥ (यथाच मनौ । १ । ९४ । “उत्षत्तिरेव विप्रस्य मूर्त्तिर्धर्म्मस्य शाश्वती । स हि धर्म्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥” अस्य पादोदकमाहात्म्ये यथा, ब्रह्मवैवर्त्ते । १ । ११ । २६ — ३३ । “पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् । विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ॥ स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः । महारोगी यदि पिबेत् विप्रपादोदकं द्विज । मुच्यते सर्व्वरोगेभ्यो मासमेकन्तु भक्तितः ॥ अविद्यो वा सविद्यो वा सन्ध्यापूतो हि यो द्विजः । स एव विष्णुसदृशो मा हरी विमुखो यदि ॥ घ्नन्तं विप्र शपन्तं वा न हन्यान्नच तं शपेत् । गोभ्यः शतगुणं पूज्यो हरिभक्तश्च ब्राह्मणः ॥ पादोदकञ्च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज । नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत् ॥ एकादश्यां न भुङ्क्ते यो नित्यं विष्णुं समर्च्चयेत् । नस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद्ध्रुवम् ॥”)
अश्वत्थः । इति राजनिर्घण्टः ॥ (त्रि, मेधावी । यथा, ऋग्वेदे । १० । ११२ । । ९ । “निषुसीद गणपते गणेषु त्वा माहुर्व्विप्रतमं कवीनाम् ॥”)
“विप्रतमं अतिशयेन मेधाविनम् ।” इति तद्भाष्ये सायणः ॥ स्तवकर्त्ता । यथा, ऋग्वेदे । १० । ४० । १४ । “विप्रस्य वा यजमानस्य वा गृहम् ॥” “विप्रस्य मेधाविनः स्तोतुर्व्वा ।” इति तद्भाष्ये सायणः ॥)



Correction: