संस्कृत-शब्दकोशः

विप्लुष् विफला

विफल

वाचस्पत्यम्

विफल ||‍ त्रि० विगत फलमस्य । १ निरर्थके २ फलरहिते च ३ केतक्यां स्त्री० राजनि० ।


शब्दकल्पद्रुमः

विफलं || त्रि (विगतं फलं यस्य ।)
निरर्थकम् । तत्पर्य्यायः । मोघम् २ व्यर्थम् ३ । इनि जटा- धरः ॥ (यथा, कुमारसम्भवे । ७ । ६६ । “परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्बमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत् ॥”)



Correction: