वाचस्पत्यम्
विवेक || पु० वि + विच—घञ् । १ याथार्थ्येन वस्तुस्वरूपाव- धारणे २ प्रकृतिपुरुषयार्भदज्ञाने च जटा० । ३ अन्योन्यधर्मव्यावर्त्तनेन वस्तुस्वरूपावधारणे । विवेकचू- तत्प्रकारो दृश्यः । ४ विचारे ५ जलद्रोण्याम् मेदि० । संज्ञायां कर्त्तरि घञ् । ६ विचारके च प्राड्विवेकः ।
शब्दकल्पद्रुमः
विवेकः || पुं, परस्परव्यावृत्त्या वस्तुस्वरूपनिश्चयः । प्रकृतिपुरुषयोर्विभागेन ज्ञानं इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । पृथगात्मता २ । इत्य- मरः ॥ विवेचनम् ३ । इति शब्दरत्नावली ॥ पृथग्भावः ४ । इति धरणिः ॥ “विवेको वस्तुनो भेदः प्रकृतेः पुरुषस्य वा ॥” इति जटाधरः ॥ यथा । नित्यानित्यवस्तुविवेकस्तावत् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । इति वेदान्तसारः ॥ (यथा, मनौ । १ । २६ । “कर्म्मणाञ्च विवेकार्थं धर्म्माधर्म्मौ व्यवेचयत् ॥”)
जलद्रोणी । विचारः । इति मेदिनी ॥ (यथा, मनौ । १ । ११२ । “तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः ॥”)