संस्कृत-शब्दकोशः

व्ययिन् व्यलीक

व्यर्थ

वाचस्पत्यम्

व्यर्थ ||‍ त्रि० विगतोऽर्थः प्रयोजनं वाऽस्य । १ निष्पयोजने २ वि- फले जटा० ३ अर्थशून्ये च ।


शब्दकल्पद्रुमः

व्यर्थं || त्रि (विगतोऽर्थो यस्मात् ।)
निरर्थकम् । तत्पर्य्यायः । मोघम् २ विफलम् ३ । इति जटाधरः ॥ (यथा, कुमारे । ३ । ७५ । “शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ॥”)



Correction: