वाचस्पत्यम्
व्यलीक || न० वि + अल—ईकक् । १ अकार्य्ये २ वैलक्ष्ये मेदि० ३ अपराधे हेमच० ४ अप्रिये ५ अनृते च अमरः । ६ तद्वति त्रि० । ७ प्रतारणायां हला० ८ गतिविपर्य्यये भरतः ।
शब्दकल्पद्रुमः
व्यलीकं || क्ली (विशेषेण अलतीति । वि + अल + “अलीकादयश्च ।” उणा० ४ । २५ । इति कीकन्प्रत्ययेन निपातनात् साधुः ।)
पीडार्थः । इत्यमरः ॥ गतिविपर्य्ययः । कामजापराधः । इति तट्टीकायां भरतः ॥ यथा, —
“कृत्यं नैव विजानाति परेणापकृतं क्वचित् । कृत्यञ्च संस्मरेदेतदसत्यञ्च न जल्पति ॥ व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः । नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि न च क्षिपेत् ॥ ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् । ईदृशास्तु नरा भद्रे मम कर्म्मपरायणाः ॥” इति वाराहे योनिगर्भमोक्षणनामाध्यायः ॥ अप्रियम् । (यथा, महाभारते । ३ । ६ । ९ । “न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन । व्यलीकं कृतपूर्व्वं वै प्राज्ञेनामितबुद्धिना ॥”)
अकार्य्यम् । वैलक्ष्यम् । इति मेदिनी ॥ (यथा, किराते । ३ । १९ । “यस्मिन्ननैश्वर्य्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन्धनुः कस्य रणे न कुर्य्यात् मनो भयैकप्रवणं स भीष्मः ॥”)
अपराधः । इति हेमचन्द्रः ॥ (यथा, शिशु- पालवधे । ९ । ८५ । “सुदृशः सरसव्यलीकतप्त- स्तरसा श्लिष्टवतः सयौवनोष्मा ॥”)
प्रतारणा । इति हलायुधः ॥ (दुःखम् । इति वैजयन्ती ॥ यथा, कुमारे । ३ । २५ । “दिग् दक्षिणा गन्धवर्ह मुखेन व्यलीकनिश्वासमिवोत्ससर्ज्ज ॥”)
तद्बति, त्रि ॥ (यथा, भागवते । ८ । २२ । २ । “यद्युत्तमःश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य्य मन्यते । करोन्वृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥”)
शब्दकल्पद्रुमः
व्यलीकः || पुं, (वि + अल पर्य्याप्तौ + कीकन् ।)
नागरः । इति मेदिनी ॥ तत्पर्य्यायः । षिड्गः २ वट्प्रज्ञः ३ कामकेलिः ४ विदूषकः ५ पीठ- केलिः ६ पाठमर्द्दः ७ भङ्गिलः ८ छिदुरः ९ विटः १० । इति त्रिकाण्डशेषः ॥