वाचस्पत्यम्
व्याप्ति || स्त्री वि + आप—क्तिन् । १ ऐश्वर्य्यभेदे न्यायमते तद भाववति अविद्यमानत्वरूपे २ पदार्थे यथा वह्नेरभाव- वति जलादौ धूमो नास्तीति धूमादौ वह्नेर्व्याप्तिः । “व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः । अथ वा हेतुवन्निष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधि- रण्यं व्याप्तिरुच्यते” भाषा० । प्रमेयत्ववद्भिन्नस्याप्रसिद्धे द्वितीयलक्षणमुक्तम् । प्रतियोग्यनधिकरणीभूतहेत्वधिकर- णवृत्त्यभावप्रतियोगितानच्छेदकसाध्यतावच्छेदावच्छिन्नसा- मानाधिकरण्यं व्याप्तिरिति द्वितीयलक्षणार्थः । व्याप्तिश्च द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च तत्रान्वयव्याप्तिः पूर्वोक्ता । “साध्याभावव्यापकत्वं हेत्वभावस्य यत् भवेत्” भाषा० उक्ता अपरा सा च साध्याभावव्यापकीभूताभाव- प्रतियोगितारूपा । तत्रान्वयव्याप्तिज्ञाने व्यभिचारज्ञा- नाभावः सहकारज्ञानञ्च कारणम् । व्यतिरेकव्याप्ति ज्ञाने च साध्याभावे हेत्वभावस्य सहचारज्ञानं व्यभि- चारज्ञानभावश्च कारणम् । “व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे, तर्कः क्वचिच्छङ्का- निवर्त्तकः । द्वैविध्यन्तु भवेत् व्याप्तेरन्वयव्यतिरेकतः” भाषा० । धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्नि- जन्यो न स्यादित्यादितर्केण व्यभिचारशङ्का निर्वर्त्त्यते इत्याकरे दृश्यम् । उपाधिस्तु व्यभिचारोन्नायकतया व्याप्तिज्ञानविघटकतया अनुमितिविरोधी उपाधिशब्दे १३४८ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
व्याप्तिः || स्त्री (वि + आप् + क्तिन् ।)
व्यापनम् । (यथा, भागवते । ७ । ८ । १७ । “सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेषु खिलेषु चात्मनः ॥”)
रम्भः । इति मेदिनी ॥ रम्भस्थाने लम्भनमिति हेमचन्द्रे पाठः ॥ शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्य विशेषः । यथा, —
“अनिमा लघिमा व्याप्तिः प्राकाम्यं महिमे- शिता । वशिकामावशायित्वे ऐश्वर्य्यमष्टधा स्मृतम् ॥” इति शब्दमाला ॥ * ॥
न्यायमते साध्यवदन्यावृत्तित्वम् । यथा । अग्न्य- भावस्थाने धूमस्यावर्त्तमानत्वम् । इयं अन्वय- व्याप्तिः । अस्या ज्ञानं प्रति व्यभिचारज्ञाना- भावः सहचारज्ञानञ्च कारणम् । एवं साध्या- भावव्यापकीभूताभावप्रतियोगित्वम् । इयं व्यति- रेकव्याप्तिः । अस्या ज्ञानं प्रति साध्याभाव एवं हेत्वभावस्य सहचारज्ञानं व्यभिचारज्ञाना- भावश्च कारणं तत्र प्रमाणम् । व्याप्तः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः । अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ॥ साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते । व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ॥ हेतुर्व्याप्तिग्रहे तर्कः क्वचित् शङ्कानिवर्त्तकः । द्वैविध्यन्तु भवेद्ब्याप्तेरन्वयव्यतिरेकतः ॥ अन्वयव्याप्तिरुक्तैव व्यतिरेकादथोच्यते । साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥” इति भाषापरिच्छेदः ॥