वाचस्पत्यम्
शक्ति || स्त्री शक—क्तिन् । १ सामर्य्ये २ स्त्रीदेवतायां देवी- मूर्त्तौ । न्यायाद्युक्ते कारणनिष्ठे कार्य्योत्पादनयोग्ये ३ धर्मभेदे । ३ शव्दनिष्ठे अर्थवोधकतारूपे बोध्यत्वप्रकार- केच्छाविषयत्वरूपे वृत्तिभेदे शर्वलाख्ये ४ अस्त्रभेदे च अमरः । मीमांसकमते शक्तिः पदार्थान्तरम् यथोक्तम् अनुमा० चि० । “स्यादेत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथा हि- यादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति प्रतिबन्धके न जायते अतो यदभावात् कार्य्याभावस्तद्व- ह्न्यादावभ्युपेयं तेन विना तदभावात् यत्तद्भावानु- पपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः” । न्ययमते तन्निरा- सस्तत्रैव ईश्वरवादग्रन्थे दर्शितो यथा “तृणारणिमणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्या- वान्तरवह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यते । न च जातौ योग्यानुपलन्धिबाधः गोमयप्रभव- वृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्ष- सिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्त्रि जातिविषया । तृण- जन्यत्वेनोपाधिनाऽसाविति चेन्न बाघकं विनानुगतबुद्धे- स्तद्व्यङ्ग्यजातिविषयत्वनियमात् । न च गोमयवृश्चिक- प्रभववृश्चिकजातिपरम्परायामनगतजात्यापत्तिः गोमय- जन्यवृश्चिकप्रभवत्वजातेः सत्त्वात् वह्निमात्रे च दाहस्पर्श वानवयकः तत्संयोगः सेवनादिश्च कारणानि न तु तृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमा- दायैव साध्यसामग्र्याजनकत्वात्” । एवमाधेयशक्तिरपि मीमांसकमतेन पूर्वपक्षीकृत्य तत्र निरस्ता यथा तच्च प्रोक्षणप्रतिष्ठाशब्दयोर्दर्शितम् अधिकं किञ्चिदत्र प्रदर्श्यते यथा “कामिनीचरणामिघातदोहदादिभिरशोकपुष्पोत्कर्षदर्श- नादपि नाधेयशक्तिः समयविशेषावच्छिन्नचरणदोहा दिसंयोगध्वंसस्यैव कारणत्वात् चरणाभिधाताकृष्टभागा- न्तजनितवृक्षादेव वा तदुपपत्तिः कालान्तरे पुष्पाद्युत्क- र्षात् । दुःखावयवोपचयावश्यम्भावेन वृक्षभेदावश्यकत्वात् । नापि ताम्बकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः तत्संयोगध्वंसस्य संयोगसमानकालीना- स्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंसंर्गाभावसहितस्य शुद्धिपदार्थत्वात् । भस्मादिसंयोगजनितः कांस्याद्युपभोक्तृ निष्ठः संस्कार एव शुद्धिरित्यन्थे । अभिमन्त्रितपयः पल्लवादावपि समयविशेषावच्छिन्नाभिमन्त्रणध्वंस एव व्यथाद्यपनायकः तत्तन्मन्त्रदेवतासन्निधिरेव वा । कल- मवीजाटीनामापरमाण्वन्तभङ्गे तत्र चावान्तर- जात्यभावे नियतकलमजातीयादिसिद्धिरपि । परमाणु- षाकजविशेषादेव कार्य्यवृत्तिरूपादि सजातीयस्य पूर्बरूपा- दिविजातीयस्य परमाणौ पाकजरूपादैरुभयासिद्धत्वात् यथा हि कमलवीजं यवादिजात्या व्यावर्त्त्यते तथा तत्परमाणवोऽपि पाकजैरेव । एवं माघकर्षणजनितात् परमाणुपाकपरम्पराविशेषादेव हैमन्तिकशस्योत्पत्तिः । एतेन लाक्षारसावसेकादयो वाख्याताः । निमित्तविशेष- जनितपाकजात्तत्फलविशेषः यथा हारीतमांसं हरिद्रा- मलसाधितमुपयोगात् सद्योष्यापादयति नान्यथा साधि- तमित्यादि । यत्र च तोयतेजोवायुषु न पाकजोविशेष- स्तत्रोद्भवानुद्गवद्रवकठिनत्वादयोविशेषास्तत्तदुपनायकादृ- ष्टविशेषादेव । तुलादौ चाधिवासपूर्वकतुलारोहणसामग्री तुल्यस्य सत्यासत्यप्रतिज्ञत्वसहिता प्राचीनाधर्माधर्मफले तज्जयमङ्गौ जनयति । यद्वा अयं निष्पापः पापवान् वेति तुलारूढाभिशस्तज्ञानविशेषसहिता सा तथा, त- दाहुः, “तांस्तु देवाः प्रपश्यन्ति स्वश्चैबान्तरपुरुषः” इति अथ वा प्रतिज्ञाशुद्ध्यशुद्धी अपेक्ष्य तया घर्माधर्मौ ज- न्येते ताभ्याञ्च जयपराजयौ सत्यासत्यप्रत्यभिज्ञाभिशस्त- तुलारोहणस्येष्टानिष्टफलत्वे नार्थतो विधिनिषेधात् । अ- भिशस्तः सत्यपतिज्ञोविजयकामस्तुलामारोहेदित्यसत्यप्र- तिज्ञो न तुलामारोहेदिति श्रुतेरुन्नयनात् । यद्वा तया दवतासन्निधिः क्रियते ताश्च कर्मानुरूपलिङ्गमभिव्यञ्ज- यन्ति” । तत्र च शक्तिपदार्थस्वरूपादिकमुक्तं यथा “कस्तर्हि शक्तिपदार्थः कारणत्वं तच्च स्वस्वव्याप्येतरस- कलसंपत्तौ कार्य्याभावव्यापकाभाबाप्रतियोनित्वम् । अथ वा यत्र कार्य्याभावव्याप्यता इतराभावावच्छिन्ना तत्का- रणवीजे अङ्कुराभावव्याप्यता न वोजत्वेनावच्छिद्यते इतरसमवधाने सति वोजादङ्कुरसत्त्वात्, किन्त्वि तरा- भावेनावच्छिद्यते इतराभावावच्छिन्ना तत्कारणवीजे अ- ङ्कुराभावव्याप्यता न वीजत्वेनावच्छिट्यते इतराभावे वीजस्याङ्कुराभावनियमात् । शिलाशकलेष्वङ्कुरामाव- व्याप्यता शिलात्वेनैषावच्छिद्यते । यद्वा अन्यासमवधाना- वच्छिन्नकार्य्यानुत्पत्तिव्याप्यत्वं कारणत्वं, रासभादेः का- र्य्याभावव्याप्यया अन्यासमवधानस्य वैयर्थ्येनानवच्छेदक- त्वात् । अनन्यषासिद्धनियतपूर्ववर्त्तिजातीयत्वं वा तत्त्वम् । अन्यथासिद्धञ्च त्रिधा येन सहैव यस्य यं प्रति पूर्व- वर्त्तित्वमवगम्यते, यथा घटं प्रति दण्डरूपस्य, (१) अन्यं प्रति पूर्ववर्त्तित्वे ज्ञाते एव यं प्रति यस्य पूर्ववर्त्तित्व- मवगम्यते यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञाब एव ज्ञानं प्र- त्याकाशस्य (२) । अन्यत्र कॢप्तनियतपूर्ववर्त्तिन एव कार्य्य- सम्भवे तत्सहभूतत्वम् (३) यथा गन्धवति गन्धागुत्पादा- दुगन्धं प्रति तत्प्रागभावस्य नियतपूर्ववर्त्तित्वकल्पनात् पाकजस्थले गन्घं प्रति रूपादिप्रागभावादीनामप्यन्यथा- सिद्धत्वम् एतत्त्रितयव्यतिरेके नियतपूर्ववर्त्तित्वं कारण- त्वम् । यागापूर्वयोस्तु यागपूर्ववर्त्तित्वेऽवगते न त्वगम्य- माने यत्र जन्यस्य पूर्ववर्त्तित्वेऽवगते जनकस्य पूर्वभावो- ऽवगम्यते तत्र जन्येन जनकस्यान्यथांसिद्धिः । यत्र च जनकस्य तथात्वेऽवगते जन्यस्य पूर्वभावावगतिस्तत्र तद्- द्वारा तस्य जनकत्वमेव । दण्डसंयोगभ्रमणयोस्तु युग- पदेव पूर्वभावितत्वग्रहः । स्वस्वानन्तरोत्पत्तिकसकलसम- वधाने सत्यपि यस्याभावात् कार्य्यं न जायते सति च जायते तज्जातीयं प्रति तदनन्यथासिद्धम् । अनन्यथा- सिद्धनियतपूर्बवर्त्तित्वं कारणत्वमित्यन्यै तन्न ईश्वरतद्- बुद्ध्यादीनामसंग्रहात् तद्ज्वतिरेकस्य तत्समवधान- व्यतिरेकस्य वाऽभावात् । कार्य्यस्यान्यथानुपपद्यमानताव्य- वस्थाप्यत्वं वाऽनन्यथासिद्धम् । नन्वेवमतिरिक्तशक्तौ साधकबाधकप्रमाणाभावान्नित्यं संशयः न च साधका- भावस्य बाधकत्वं बाधकाभावस्य साधकत्वादिति चेन्न साधकाभावेन वह्नावन्यत्र सिध्यतीन्द्रियधर्माभावसाधने लाधवं बाधकाभावेनातीन्द्रियधर्मसाधने गौरवमिति साधकाभावात्तदभाव एव सिध्यतीति” । “इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमति” गोरक्षसं० । सत्त्वरजस्तमोगुणत्रयाधीने ईश्वरस्य क्रमेण ज्ञानेच्छा- क्रियारूपे ७ शक्तित्रये । “एषा त्रिशक्तिरुद्दिष्टा नर- सिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विको ब्रह्मसंस्थिता । एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता । एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता । परमात्मा यथा देव एकएव त्रिधार्पितः । प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत्” वराहपु० । प्रकृतिशक्तिश्च ईश्वरस्य सृष्टिकर्त्तृत्वप्रवर्त्तिता “शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्” आमन्दल० । तन्त्रोक्ते ५ पीठाधिष्टा- तृदेवताभेदे देवभेदे पीठशक्तयो भिन्नास्तन्त्रसारादौ उक्ताः । राज्ञां प्रभावोत्साहमन्त्रजाते ६ सामर्ध्ये च अमरः । ८ गौर्य्यां मेदि० ९ लक्ष्म्यां शब्दमा० । वृत्तिभेदशक्तिश्च अर्थबोधानुकूलः पदपदार्थसम्बन्धः स च इदं पदममुमर्थं बोधयतु, अस्मात् शब्दादयमर्थो बोद्धव्य इत्येवंरूपः इच्छात्मकः सङ्केतः, घटादिपदार्थविशेष्यक घटादिपदजन्यबोधविषयताप्रकारकेच्छाषिषयोवा । मी- मांसकास्तु अभिधा नाम पदार्थान्तरं सङ्केतग्राह्यं शक्ति- रित्याहुः । पदपदार्थयोः सम्बन्धान्तरं शक्तिरिति शा- ब्दिकाः । सा च शक्तिस्त्रिविधा रूढिर्योगः योगरूढिश्चेति तत्राद्या घटादिपदेषु, द्वितीया पाचकादिपदेषु, तृतीया पङ्कजादिपदेषु । प्राभाकरमते शक्तिर्द्विविधा अनुभाविका स्मारिका च तत्राद्या कार्य्यत्वान्विते, द्वितीया तु जातौ । तत्र गवादिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिरिति नैयायिकाः । व्यक्तावेव शक्तिरिति नव्याः । जात्था- कृतिव्यक्तिषु तिसृषु शक्तिरिति वैयाकरणाः जातावेव शक्तिर्व्यक्तेर्भानं त्वाक्षेपादिति भाट्टादयः । जातौ थ्यक्तौ चोभयत्र शक्तिः किन्तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूप- सती प्रत्यायिकेति । कार्य्यान्वितव्यक्तौ शक्तिरिति प्राभा- कराः । धातोस्तु फलावच्छिन्नव्यापारे शक्तिरिति नैयायिकाः । फल एव शक्तिरिति मण्डनादयः । व्यापारे शक्तिरिति रत्नकोषकृत् । आख्यातस्य कृतौ शक्तिरिति नैयायिकाः । कर्त्तरि शक्तिरिति शाब्दिकाः । व्यापारमात्रे शक्तिरिति मीमांसकाः । चतुर्विधविषय- त्वात् तस्याश्चातुर्विध्यं शब्दश० प्र० अलङ्कारिमते दर्शितं यथा “जातिद्रव्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया । जातिशब्दादि- भेदेन चातुर्विध्यं परे जगुः” । गोगवयादीनां गोत्वा- दिजात्या, पश्वाद्यादीनां लाङ्गूलधनादिद्रघ्येण, धन्यपि- शुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च श- ब्दानां कर्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेब रूढाना- मिति तदुक्तं दण्ड्याचार्यैः “शब्दैरेव प्रतीयन्ते जाति- द्रव्यगुणक्रियाः । चातुर्विध्यादमीषान्तु शब्द उक्तश्चतु- र्विधः” इति । तदेतन्निरासितं तत्रैव “तदेतज्जडमूकमूर्खादीनामन्यशू- न्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः” ।
शब्दकल्पद्रुमः
शक्तिः || स्त्री (शक + क्तिन् ।)
कायजनन- सामर्थ्यम् । यथा, —
“या देवी सर्व्वभूतेषु शक्तिरूपेण संस्थिता ।” इति देवीमाहात्म्यस्य टीकायां नागोजीभट्टः ॥ शक्यते जेतुमनया । सा प्रभावोत्साहमन्त्रज- भेदात्त्रिविधा । तत्र प्रभुत्वे साधकत्वात् कोष- दण्डौ प्रभुशक्तिः १ । विक्रमेण स्वशक्त्या विस्फु- रणमुत्साहशक्तिः २ । सन्ध्यादीनां सामादी- नाञ्च यथावस्थानं मन्त्रशक्तिः ३ ॥ सामर्थ्य- मात्रम् । तत्पर्य्यायः । द्रविणम् २ तरः ३ सहः ४ बलम् ५ शौर्य्यम् ६ स्थाम ७ शुष्मम् ८ परा- क्रमः ९ प्राणः १० । इत्यमरः ॥ शुष्म ११ सहम् १२ । इति शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति जटाधरः ॥ कासूः । सा तु शर्व्वलानामास्त्रम् । इति नानार्थे अमरभरतौ ॥ गौरी । इति मेदिनी ॥ लक्ष्मीः । इति शब्दमाला ॥ * ॥
त्रिशक्तयो यथा, —
“एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥ एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता । एषैव कृष्णा तमसी रौद्री देवी प्रकीर्त्तिता ॥ परमात्मा यथा देवो एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरेकैव त्रिविधाभवत् ॥” इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥ * ॥
अपि च । “बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् । तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः ॥” इति क्रियासारः ॥ अन्यच्च । “इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरो- मिति ॥” इति गोरक्षसंहिता ॥ * ॥
अष्ट शक्तयो यथा, —
“इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी । कौमारी नारसिंही च वाराही विकटाकृतिः ॥ माहेश्वरी महामाया भैरवी भीरुरूपिणी । अष्टौ च शक्तयः सर्व्वा रथस्थाः प्रययुर्मुदा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे बाणयुद्धं नाम ११९ अध्यायः ॥ * ॥
नव शक्तयो यथा, —
“तत्र पद्मे चाष्टदले मध्ये च भक्तिपूर्ब्बकम् । वैष्णवीञ्चैव ब्रह्माणीं रौद्रीं माहेश्वरीं तथा ॥ नारसिंहीञ्च वाराहीमिन्द्राणीं कार्त्तिकीं तथा । सर्व्वशक्तिस्वरूपाञ्च प्रधानां सर्व्वमङ्गलाम् ॥ नवशक्तीश्च संपूज्य घटे देवांश्च पूजयेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६१ अध्यायः ॥ * ॥
पञ्चाशद्विष्णुशक्तयो यथा, —
“कीर्त्तिः कान्तिस्तष्टिपष्टी धृतिः शान्तिः क्रिया दया । मेधा सहर्षा श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती ॥ प्रीती रती रमा प्रोक्ताः क्रमेण स्वरशक्तयः । जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ॥ विरजा विजया विश्वा विनदा सुनदा स्मृतिः । ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्मुक्तिर्मतिः क्षमा ॥ रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा । परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ॥ अमोघा विद्युता चेति शक्तयः सर्व्वकामदाः । एताः प्रियतमाङ्केषु निषण्णाः सस्मिताननाः ॥ विद्युद्दामसमानाङ्ग्यः पङ्कजाभयबाहवः ॥” * ॥
पञ्चाशद्रुद्रशक्तयो यथा, —
“गुणोदरी स्याद्बिरजा शाल्मली तदनन्तरम् । लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिता ॥ सदीर्घमुखीगोमुख्यौ दीर्घजिह्वा तथैव च । कुण्डोदर्य्यर्द्धकेश्यौ च तथा विकृतमुख्यपि ॥ ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः । सुश्रीमुखी चैव विद्यामुख्येताः स्वरशक्तयः ॥ महाकालीसरस्वत्यौ सर्व्वसिद्धिसमन्विते । गौरी त्रैलोक्यविद्या स्यान्मन्त्रसिद्धिस्ततः परम् ॥ आत्मशक्तिर्भूतमाता तथा लम्बोदरी स्मृता । द्रावणी नागरी भूयः खेचरी चापि मञ्जरी ॥ रूपिणी चित्रिणी पश्चात् काकोदर्य्यपि पूतना । स्याद्भद्रकाली योगिन्यौ शङ्खिनी गर्ज्जिनी तथा ॥ कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रया । जया च सुमुखेश्वर्य्या रेवती माधवी ततः ॥ वारुणी वार्षवी प्रोक्ता पश्चाद्रक्षोविदारिणी । ततश्च सहजा लक्ष्मीर्व्यापिनी माययान्विता ॥ एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः ॥ रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥” इति प्रपञ्चसारः ॥ * ॥
कुलशक्तयो यथा, —
“शक्तयः परमेशानि ! विदग्धाः सर्व्वयोषितः । नटी कापालिकी वेश्या मालिनी कुङ्कुमालिनी ॥ चाण्डाली च कुलाली च रजकी नापिताङ्गना । गोपिनी योगिनी शुद्धा ब्राह्मणी राजकन्यका ॥ कोचाङ्गना च देवेशि ! तथैव शङ्खकारिणी । एता षड्विंशतिः कन्या देवानामपि दुर्लभा ॥ दैवज्ञा व्याधवामा च तथा मांसापहारिणी । बौद्धा च जवनी देवि तथा रसपसारिणी ॥ वेश्या चतुर्व्विधा प्रोक्ता द्विविधा कुङ्कुमालिनी । धीवरी द्विविधा प्रोक्ता तथैव गणिकाङ्गना ॥ कुम्भकारी द्विधा प्रोक्ता तथैव गोपिनी स्मृता । वातवैद्याङ्गना देवि जवनी द्बिविधा स्मृता ॥ बौद्धकन्या त्रिधा देवि तथा कोचाङ्गना प्रिया । पूर्व्वोक्ताभिः सहैकत्र चतुःषष्टिश्च शक्तयः ॥” इति रेवतीतन्त्रे ३ पटलः ॥ * ॥
अपि च । “पञ्चाचारेण देवेशि ! कुलशक्तिं प्रपूजयेत् । नटी कापालिकी वेश्या रजकी नापिताङ्गना ॥ ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका । मालाकारस्य कन्या च नव कन्या प्रकीर्त्तिताः । विशेषवैदग्ध्ययुताः सर्व्वा एव कुलाङ्गनाः । रूपयौवनंसम्पन्ना शीलसौभाग्यशालिनी । पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद् ध्रुवम् ॥” इति गुप्तसाधनतन्त्रे १ पटलः ॥ * ॥
तस्याः प्रशंसा यथा । “शक्तिं विना महेशानि ! सदाहं शवरूपकः । शक्तियुक्तो यदा देवि ! शिवोऽहं सर्व्वकामदः ॥ शक्तियुक्तं जपेन्मन्त्रं न मन्त्रं केवलं जपेत् । सावित्रीसहितो ब्रह्मा सिद्धोऽभून्नगनन्दिनि ॥ द्वारवत्यां कृष्णदेवः सिद्धोऽभूत् सत्यया सह । तथा कोचबधूसङ्गान्मम सिद्धिर्व्वरानने ॥ ईश्वरोऽहं महादेवि ! केवलं शक्तियोगतः । शक्तियोगेन देवेशि यदि सिद्धिर्न जायते ॥ तदैव परमेशानि मम वाक्यं वृथा भवेत् । यद्दत्तं जलगण्डूषं शक्तिवक्त्रे सुरेश्वरि ! ॥ सिन्धुरूपं महेशानि ! तज्जलं नात्र संशयः । स्वीयेष्टदेवीभावेन भोजयेत्ताञ्च यत्नतः ॥ शक्तिश्च कथ्यते देवि शृणुष्व सुरसुन्दरि । त्रयो दशाब्दादूर्द्ध्वं या पञ्चविंशतिवार्षिकी ॥ अप्रसूता विशेषेण पञ्चमेऽपि भवेत् प्रिये । सुन्दरी तु विशेषेण प्रसूता वाप्रसूतिका ॥ अवश्यं पञ्चमं कुर्य्यात् शक्तिमात्रे महेश्वरि ॥” इति शक्तिकागमसर्व्वस्वम् ॥ * ॥
तस्या उत्पत्तिमाहात्म्यादिर्यथा, — नारायण उवाच । “सह बुद्ध्या बुद्धिमन्तो न वक्तुमुचितं सुराः । सर्व्वे शक्त्यालया विश्वे शक्तिमन्तो हि जीविनः ॥ ब्रह्मादितृणपर्य्यन्तं सर्व्वं प्राकृतिकं जगत् । सत्यं नित्यं विना माञ्च मया शक्तिः प्रकाशिता ॥ अविर्भूता च सा मत्तः सृष्टौ देवी मदीच्छया । तिरोहिता च सा शेषे सृष्टिसंहरणे मयि ॥ सृष्टिकर्त्री च प्रकृतिः सर्व्वेषां जननी परा । मम तुल्या च मन्माया तेन नारायणी स्मृता ॥ सुचिरञ्च तपस्तप्तं शम्भुना ध्यायता च माम् । तेन तस्मै मया दत्ता तपसां फलरूपिणी ॥ व्रतञ्च लोकशिक्षार्थमस्या न स्वार्थमेव च । स्वयं व्रतानां तपसां फलदात्री जगत्त्रये ॥ मायया मोहिताः सर्व्वे किमस्या वास्तवं व्रतम् । साध्यमस्या व्रतफलं कल्पे कल्पे पुनः पुनः ॥ सुरेश्वरा यदंशाश्च ब्रह्मविष्णुमहेश्वराः । कलाः कलांशरूपास्ते जीविनश्च सुरादयः ॥ मृदा विना कुलालश्च घटं कर्त्तुं यथाक्षमः । विना स्वर्णं स्वर्णकारः कुण्डलं कर्त्तमक्षमः ॥ विना शक्त्या तथाहञ्च स्वसृष्ठिं कर्त्तुमक्षमः । शक्तिप्रधाना सृष्टिश्च सर्व्वदर्शनसम्मता ॥ अहमात्मा च निर्लिप्तोऽदृश्यः साक्षी च देहि- नाम् । देहाः प्राकृतिकाः सर्व्वे नश्वराः पाञ्चभौतिकाः ॥ अहं नित्यशरीरी च भानुविग्रहविग्रहः । सर्व्वाधारा च प्रकृतिः सर्व्वात्माहं जगत्सु च ॥ अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः । पञ्च प्राणाः स्वयं विष्णुर्ब्बुद्धिः प्रकृतिरीश्वरी ॥ शक्त्यो निद्रादयश्चैताः सर्व्वाश्च प्रकृतेः कलाः । सा च शैलेन्द्रकन्येयं इति वेदनिरूपितम् ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ७ अध्यायः ॥ * ॥
अपि च । “सा शक्तिः सृष्टिकाले च पञ्चधा चेश्वरेच्छया ॥ राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥ प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः । प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥ ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी । परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥ विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा । वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता ॥ बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी । सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी ॥ रागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा । कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती ॥ पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी ॥ ततः सृष्टिकमेणैव बहुधा कलया च सा । योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ॥” इति च ब्रह्मवैवर्त्ते गणेशखण्डे ४० अध्यायः ॥ * ॥
ब्रह्माणीशक्त्युत्पत्तिर्यथा । “ततो ब्रह्मादयो देवा भयं जग्मुः सवासवाः । यदि स्यान्निर्ज्जितो देवः क्षयः सर्व्वदिवौकसाम् ॥ एतस्मिन्नन्तरे शक्र ! ब्रह्मा चिन्तयते क्रियाः । स्त्रीरूपधारिणी भूत्वा सहायत्वं महेश्वरे ॥ क्षिप्रं कुरु स्वकार्य्ये त्वं एवं विश्वेश्वरे रणे । ततो द्योतितवान् शम्भुः स्वशक्तिं किरणोज्ज्व- लाम् ॥ ब्रह्मरूपधरां किन्तु ललनाकारविग्रहाम् । हंसस्यन्दनमारूढा स्वकीयायुधधारिणी ॥ तर्ज्जयन्ती महौजेन दानवानां भयङ्करी । तस्य घोराणि कर्म्माणि दृष्ट्वा स विस्मयन् शिवः । का पुनः स्रष्टुः सुस्नेहा सदातिप्रतिपक्षजित् । तस्याः शक्तिं द्बितीयाञ्च सृजामि अपराजि- ताम् ॥” इति देवीपुराणे रुरुवधे ब्रह्माण्युत्पत्तिः ॥ * ॥
नन्दातीर्थे शक्तिमन्त्रविचारनिषेधो यथा । “योऽसावनादिमध्यान्तशिवशक्तिमयः परः । तस्यैव परमानन्दा सर्व्वकिल्विषनाशिनी ॥ तत्प्रभावेण प्राप्नोति तपोयज्ञादिकं फलम् । मन्त्राणां देवशक्तीनां न विचारो वरानने ॥” इति देवीपुराणे नन्दाकुण्डप्रवेशः प्रथमा- ध्यायः ॥ * ॥
प्रकृतिः । यथा, —
“प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा । एतानि तस्या नामानि पुरुषं या समाश्रिता ॥” तस्या गुणानाह । “सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः ।” इति भावप्रकाशः ॥ * ॥
शक्तिविषयकपुष्पाणि यथा, —
“अथ पुष्पं प्रवक्ष्यामि कर्म्मयोगे महेश्वरि । शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा ॥ कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् । जात्यशोके केतकी द्वे कुमारीचम्पकोत्पलम् ॥ कुन्दमन्दारपुन्नागपाटलानागचम्पकम् । आरग्वधं कर्णिकारं पावन्ती नवमल्लिका ॥ सौगन्धिकं सकोरण्डं पलाशाशोकसर्ज्जकाः । सिन्धुवारो ह्यपामार्गवापुलीकञ्च कामजम् ॥ व्याघ्रचेलं दमनकं मरुवकं ततः परम् । लवङ्गं जलकर्पूरं तगरञ्च जवा तथा ॥ शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् । अन्यानि वनपुष्पाणि जलजस्थलजानि च । गिरिजानि देशजानि नानापुष्पाण्यतः परम् ॥” इति प्रपञ्चसारः ॥