संस्कृत-शब्दकोशः

शङ्कोचि शङ्खक

शङ्ख

वाचस्पत्यम्

शङ्ख ||‍ पु० न० शम—ख । १ स्वनामख्याते समुद्रजाते पदार्थे अमरः । २ ललाटास्थ्नि, ३ निधिभेदे, ४ नखीनामगन्ध- द्रव्ये मेदि०, ५ कर्णसमीपस्थे—अस्थ्नि, ६ नागभेदे, ७ ह- स्तिदन्तमध्ये त्रिका० । ८ दशनिखर्वसंख्यायां, ९ तत्- संख्याते च । तस्य शङ्खचूडासुरास्थितस्तदुत्पत्तिः ब्रह्मवै० प्रकृ० १८ अ० उक्ता यथा । “अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति । ग्रीष्म- मध्याह्नमार्त्तण्डसमानरुचमुत्तमम् । शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तञ्च सरथञ्चा- बलीलया । स शिवस्तेन शूलेब दानवस्यास्थिजालकम् । प्रेम्णा च प्रेरयामास लवणोदे च सागरे । अ- स्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह । मानाप्रकार रूपा च शश्वत् पूता सरार्चने । प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् । तोर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सु- स्थिरा । स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा । शङ्खे हरेरधिष्ठानं यतः शङ्कस्ततो हरिः । तत्रैव स- ततं लक्ष्मीर्दूरीभूतसमङ्खलम् । स्त्रीणाञ्च शङ्खध्वनिभिः शूद्राणाञ्च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थल- मन्यत् स्थलात्ततः” १० मुद्राभेदे तन्त्रसा० । ११ प्रस्तरभेदे । युक्तिकल्पतरौ तल्लक्षणादि यथा “क्षी- रोदकूलेऽपि सुराष्ट्रदेशे तदन्यतोऽपि प्रभवन्ति शङ्खाः । अरुष्कवर्णाः शशिशुभ्रभासः सुसूक्ष्मवक्त्रा गुरुवो म- हान्तः । ते वामदक्षिणावर्त्तभेदेन द्बिविधा मताः । दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशोधनम् । तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति । वारि हित्वा स पापानि पुण्यमाप्नोति मानवः । वृत्तत्वं स्निम्धताच्छत्वं शङ्खस्येति गुणत्रयम् । आवर्त्तभङ्गदोषो हि हेमयागाद्विनश्यति । ब्रह्मादिजातिभेदेन स पुनश्चतुर्विधः” । “ये स्निग्धमसृणाकारा मृदवो लघवस्तथा । ब्राह्मणाः प्रस्तराज्ञेयाः सर्वकर्मसु शोभनाः । ये दृढाङ्गाः सुगुरव- तथांशांशविभागिनः । अश्मानः क्षत्रियाज्ञेयाः कर्क- शाङ्गास्तथैव च । मृदवो गुरुवो ये तु ये स्नेहेनेव रक्षिताः । ते वैश्याः स्वविभक्तांशा युजन्ते सर्वकर्मसु । ये कर्करावृताङ्गाश्च कर्करा ये प्रतिष्ठिताः । येऽत्यन्तगुरुवः स्निग्धास्ते शूद्राः प्रस्तराधमाः । इति प्रोक्तमशेषेण सम्यक् पाषाणलक्षणम् । विचार्य्य मतिमान् कार्य्ये नि- योक्तव्यं विचक्षणैः” ।


शब्दकल्पद्रुमः

शङ्खः || पुं, क्ली, (शाम्यति अशुभमस्मादिति । शम + “शमेः खः ।” उणा० १ । १०४ । इति खः ।)
समुद्रोद्भवजन्तुविशेषः । शाँख इति भाषा । तत्पर्य्यायः । कम्बुः २ । इत्यमरः ॥ कम्बोजः ७ अब्जः ४ जलजः ५ । इति शब्दरत्नावली ॥ अर्णोभवः ६ पावनध्वनिः ७ अन्तःकुटिलः ८ महानादः ९ श्वेतः १० पूतः ११ मुखरः १२ दीर्घनादः १३ बहुनादः १४ हरिप्रियः १५ । अस्य गुणाः । कटुरसत्वम् । शीतत्वम् । पुष्ठि- वीर्य्यबलप्रदत्वम् । गुल्मशूलकफश्वासविषदोषना- शित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “कम्बुशङ्खनखश्चापि शुक्तिशम्बूककर्कटाः । जीवा एवंविधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥ कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः । वृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥” इति भावप्रकाशः ॥ अन्यच्च । “शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।” इति राजवल्लभः ॥ * ॥
अस्योत्पत्त्यादिर्यथा । “अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति । ग्रीष्ममध्याह्नमार्त्तण्डशतकरुचमुत्तमम् ॥ शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तञ्च सरथञ्चावलीलया ॥ स शिवस्तेन शूलेन दानवस्यास्थिजालकम् । प्रेम्णा च प्रेरयामास लवणोदे च सादरम् ॥ अस्थिभिः शङ्खचूडस्य शङ्खजातिर्ब्बभूव ह । नानाप्रकाररूपा च शश्वत्पूता सुरार्च्चने ॥ प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् । तीर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना ॥ शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा । स स्नातः सर्व्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥ शङ्खे हरेरधिष्ठानं यतः शङ्खस्ततो हरिः । तत्रैव सततं लक्ष्मीर्द्दूरीभूतममङ्गलम् ॥ स्त्रीणाञ्च शङ्खध्वनिभिः शूद्रानाञ्च विशेषतः । भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थला- त्ततः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥ * ॥
अथ शङ्खमाहात्म्यम् । ब्रह्मोवाच । “शृणु शङ्खस्य माहात्म्यं सर्व्वपापहरं शुभम् ॥ कपिला क्षीरमादाय शङ्खे कृत्वा जनार्द्दनम् । यज्ञायुतसहस्रस्य स्नापयित्वा लभेत् फलम् ॥ पयस्विन्याः शुभं क्षीरं शङ्खे कृत्वा तु नारद । यः स्नापयति देवेशं स गच्छेद्ब्रह्मणः पदम् ॥ क्षिप्त्वा गङ्गोदकं शङ्खे यः स्नापयति माधवम् । नमो नारायणेत्युक्त्वा मुच्यते योनिसङ्कटात् ॥ शङ्खलग्नन्तु यत्तोयं भ्रमितं केशवोपरि । निःक्षिपेन्मूर्द्ध्नि सततं गङ्गास्नानेन तस्य किम् ॥ कृत्वा पादोदकं शङ्खे वैष्णवाय प्रयच्छति । तिलमिश्रं तुलस्या च चान्द्रायणफलं लभेत् ॥ नदीतडागजं वारि वापीकूपह्रदोद्भवम् । गाङ्गेयं तद्भवेत् सर्व्वं कृतं शङ्खे हरिप्रिय ॥ गृहीत्वा विष्णुपादाम्बु शङ्खे कृत्वा च वैष्णवः । यो वहेत् शिरसा नित्यं स मुने तापसोत्तमः ॥ त्रैलोक्ये यानि तीर्थानि वासूदेवाज्ञया मुने । शङ्खं तान्यधितिष्ठन्ति तस्मात् शङ्खं सदार्च्चयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्व्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ पुरतो वासुदेवस्य सपुष्पफलचन्दनैः । शङ्खः समर्च्चितो येन तस्य लक्ष्मीर्न दुर्लभा ॥ दर्शनेनापि शङ्खस्य किमु तस्यार्च्चनेन च । विलयं यान्ति पापानि हिमः सूर्य्योदये यथा ॥ गर्भा देवारिनारीणां विनश्यन्ति सहस्रधा । तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥ तीर्थोदकं हरेर्मूर्द्ध्नि भ्रामयेत् शङ्खसंस्थितम् । ददाति मुक्तिं देवेशः क्षीरसागरजाप्रियः ॥ यमदूताश्च कुष्माण्डपिशाचोरगराक्षसाः । दृष्ट्वा शङ्खोदकं मूर्द्ध्नि भीता यान्ति दिशो दश ॥ नित्ये नैमित्तिके काम्ये स्नानार्च्चनविलेपने । शङ्खं समर्च्चयति यः श्वेतद्बीपे वसेद्धि सः ॥” इति पाद्मोत्तरखण्डे १२९ अध्यायः ॥ * ॥
अथ दक्षिणावर्त्तशङ्खमाहात्म्यम् । “दक्षिणावर्त्तशङ्खेन गत्वा प्राक्श्रोतसं नदीम् । कृत्वाभिषेकं विधिवत् ततः पापैः प्रमुच्यते ॥ दक्षिणावर्त्तशङ्खेन तिलमिश्रोदकेन तु । उदके नाभिमात्रे तु यः कुर्य्यादभिषेचनम् ॥ प्राक्श्रोतस्यां तु वै नद्यां नरस्तत्राम्भसाप्लुतः । यावज्जीवकृतं पाषं तत्क्षणादेव नश्यति ॥ दक्षिणावर्त्तशङ्खेन पात्रशोधं धरे स्थितम् । उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ॥ तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति । न शङ्खेन पिबेत्तोयं न हन्यान्मत्स्यशूकरौ ॥” इति वाराद्वे प्रबोधनीमाहात्म्याध्यायः ॥ * ॥
दक्षिणावर्त्तशङ्खतोयेन विष्णुपूजाफलं यथा । स्कान्दे । “दक्षिणावर्त्तशङ्खस्य तोयेन योऽर्च्चयेद्धरिम् । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥” इत्याह्निकाचारतत्त्वम् ॥ स च शङ्खः रत्नविशेषः । तल्लक्षणादि यथा, —
“क्षीरोदकूलेऽपि सुराष्ट्रदेशे तदन्यतोऽपि प्रभवन्ति शङ्खाः । अरुष्कवर्णाः शशिशुभ्रभासः सुसूक्ष्मवक्त्रा गुरवो महान्तः ॥ ते वामदक्षिणावर्त्तभेदेन द्विविधा मताः । दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशो धनम् ॥ तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति । वारि हित्वा स पापानि पुण्यमाप्नोति मानवः ॥ वृत्तत्वं स्निग्धताच्छत्वं शङ्खस्येति गुणत्रयम् । आवर्त्तभङ्गदोषो हि हेमयोगाद्बिनश्यति ॥ ब्रह्मादिजातिभेदेन स पुनस्तु चतुर्व्विधः ॥” * ॥
इति युक्तिकल्पतरुः ॥ श्रीकृष्णार्ज्जुनादिशङ्खनामानि यथा, —
“पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥ अनन्तविजयं राजा कुन्तीपुत्त्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥ अयन्तु रणवाद्यविशेषः । यथा, —
“भक्ततूर्य्यं गन्धतूर्य्यं रणतूर्य्यं महास्वनः । संग्रामपटहः शङ्खस्तथा चाभयडिण्डिमः ॥ महाद्बन्द्वो नृपाभीरुर्भीरुः कोलाहलोऽपि च । युद्धवादस्य पर्य्यायश्चान्ये भेदाः शलादयः ॥” इति शब्दरत्नावली ॥ ललाटास्थि । (यथा, सुश्रुते । १ । ५ । “तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षा- कुक्षिवङ्खणेषु तिर्य्यक्छेद उक्तः ॥”)
कुवेरस्य निधिविशेषः । (यथा, महाभारते । २ । १० । ३६ । “निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ॥” यथा च मार्कण्डेये । ६८ । ४२ — ४५ । “रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः । तेनापि नीयते विप्र तद्गुनित्वं निधीश्वरः ॥ एकस्यैव भवत्येष नरं नान्यमुपैति च । यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ॥ एक एवात्मना सृष्टमन्नं भुङक्ते तथाम्बरम् । कदन्नभुक् परिजनो न च शोभनवस्त्रधृक् ॥ न ददाति सुहृद्भार्य्या भ्रातृपुत्त्रस्नुषादिषु । स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥”)
नखीनामगन्धद्रव्यम् । इत्यमरमेदिनीकारौ ॥ (यथा, सुश्रुते । ६ । १७ । “मनःशिला त्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ॥”)
कर्णसमीपास्थि । इति राजनिर्घण्टः ॥ (यथा, याज्ञवल्क्ये । ३ । ९६ । “कर्णौ शङ्खौ भ्रुवौ दण्डवेष्टावोष्ठौ ककुन्दरे ॥”)
अष्टनागनायकान्तर्गतनागविशेषः । (यथा, मनसापूजापद्धतौ । “अनन्तो वासुकिः पद्मो महापद्मस्तु तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी- र्त्तिताः ॥”)
हस्तिदन्तमध्यम् । इति त्रिकाण्डशेषः ॥ दश- निखर्व्वसंख्या । लक्षकोटिरिति यावत् । यथा, “एकं दशशतञ्चैव सहस्रमयुतं तथा । लक्षञ्च नियुतं चैव कोटिरर्व्वुदमेव च ॥ वृन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥” इति भरतधृतब्रह्माण्डपुराणवचनम् ॥ * ॥
धर्म्मशास्त्रप्रयोजकमुनिविशेषः । यथा, —
“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसम्बर्त्ताः कात्यायनबृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” इति याज्ञवल्क्यवचनम् ॥



Correction: