संस्कृत-शब्दकोशः

शब्दित शमक

शम

वाचस्पत्यम्

शम ||‍ आलोचने चु० उम० सक० सेट् । शामयति ते शम- यति ते अशीशमत् त ।


वाचस्पत्यम्

शम ||‍ पु० शम—घञ् । १ शान्तौ अन्तरिन्द्रिवदमने अमरः । २ मोक्षे त्रिका० ३ पाणौ रामाश्रमः । ३ उपचारे राजनि० ।


वाचस्पत्यम्

शम ||‍ शान्तौ अक० शान्तीकरणे सक० दि० शमा० पर० सेट् । शाम्यति इरित् अशमत्—अशमीत् । उदित् क्त्वा वेट् । शान्तः । शमयति शामवति ।


शब्दकल्पद्रुमः

शम || उ भ य इर् शमे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्रावेट् ।)
उ, शमित्वा शान्त्वा । भ य, शाम्यति । इर्, अश- मत् अशमीत् । पुषादित्वान्नित्यं ङ इत्यन्ये । शमः शान्तीभावः । शशाम वृष्ट्यापि विना दवाग्नि- रिति रघुः । शम इति पदस्य ञ्यन्तस्यापि सम्भवे शान्तीकरणेऽप्ययमिति धातुप्रदीपः । ‘वरेण शमितुं लोकानलं दग्धुं हि तत्तपः ॥’ इति कुमारसम्भवम् ॥ ‘वचो निशम्याधिपतिर्दिवौकसाम् ।’ इत्यादावनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ वा शम यम इत्यत्र वाशब्दस्य व्यवस्थावाचित्वादस्य ञौ नित्यं ह्नस्वः शममति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शम || ङ क ञ आलोचे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-इति केचित्-सक०-सेट् ।)
आलोचः प्रणिधानम् । वा शम यम इत्यत्र वाशब्दस्य व्यवस्थावाचित्वात् अस्य स्वार्थे ञौ ह्नस्वाभावः । ङ क, शामयते कार्य्यं सधीः । ञ, शामयति शामयते । ‘निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥’ अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शमः || पुं, (शम्यत इति । शम + हलश्चेति घञ् नोदात्तोपदेशेति वृद्ध्यभावः ।)
शान्तिः । इत्य- मरः ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३८१ । “विरागशैलमथितात् तस्य चित्तमहोदधेः । प्रकोपकालकूटस्य पश्चात् शमसुधोदयात् ॥”)
मोक्षः । इति त्रिकाण्डशेषः ॥ पाणिः । इति शमशब्दटीकायां रामाश्रमः ॥ उपचारः । इति राजनिर्घण्टः ॥ अन्तरिन्द्रियनिग्रहः । इति वेदान्तसारः ॥ अन्तःकरणसंयमः । इति भगवद्गीतादशमाध्यायस्य ४ श्लोकटीका- याम् श्रीधरस्वामी ॥ (यथा, गीतायाम् । १० । ४ । “बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥”)
विक्षेपककर्म्मोपरमः । इति च तस्यैव ६ अध्या- यस्य ३ श्लोकटीकायां श्रीधरस्वामी ॥ (वाह्ये- न्द्रियनिग्रहः । यथा, भागवते । ३ । ३२ । ३३ । “सत्यं शौचं दया मौनंबुद्धिह्नीः श्रीर्यशःक्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् ॥” सर्व्वकर्म्मनिवृत्तिः । यथा, गीतायाम् । ६ । ३ । “योगारूढस्य तस्यैव शमः कारणमुच्यते ॥” “शमः उपरमः सर्व्वकर्म्मभ्यो निवृत्तिः ।” इति शङ्करभाष्यम् ॥ शान्तरसस्य स्थायिभावः । यथा, साहित्यदर्पणे । ३ । २३८ । “शान्तः शमः स्थायिभाव उत्तमः प्रकृति- र्म्मतः ॥” निवृत्तिः । यथा, राजतरङ्गिण्याम् । २ । ५६ । “अभवन्निर्म्मलं व्योम देवीकृत्यैः सह क्रमात् । साकं भूपालशोकेन दुर्भिक्षञ्च शमं ययौ ॥”)



Correction: