संस्कृत-शब्दकोशः

शलली शलाकापरि

शलाका

वाचस्पत्यम्

शलाका ||‍ स्त्री शल—आकन् । १ शल्ये २ मदनवृक्षे (मयना) ३ शारिकायां ४ शल्लक्यां ५ शरे मेदि० ६ आलेख्यतूलि- कायां हेमच० । ७ अस्थ्नि च शब्दच० । सुश्रुतोक्ते शृकाद्यु- द्वारणार्थे यन्त्रभेदे शस्त्रशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

शलाका || स्त्री (शल + “बलाकायदश्च ।” उणा० ४ । १४ । इति आकः । स्त्रियां टाप् ।)
शल्यम् । मदनवृक्षः । शारिका । शल्लकी । छत्रादि- काष्ठी । (यथा, गुरुगीतायाम् । “अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥”)
शरः । इति मेदिनी ॥ आलेख्यकूर्चिका । इति हेमचन्द्रः ॥ अस्थि । इति शब्दचन्द्रिका ॥



Correction: