वाचस्पत्यम्
शश || पुं स्त्री० शश—अच् । पशुभेदे (खरगोश) अमरः । स्वार्थे क । तत्रैव । “शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वर तिसारशोषाम्रश्वासामयहरश्चसः” भावप्र० । श्राद्धे तन्मांस दाने फलभेदः श्रा० त० उक्तो यथा “ऐणरौरव वाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः” तन्मासं विष्णवे देयं यथोक्तं “मार्गं मांसं तथा छागं शाशं समनुषज्यते । एतानि मे प्रियाणि स्युः प्रपद्यानि वसुन्धरे!” । वराहपु० २ चन्द्रा- ङ्करूपेमृगे धरणिः । ३ बोले ४ लोध्रे ५ नरभेदे मेदि० । तल्लक्षणं यथा “मृदुवचनसुशीसः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशोऽयम्” रतिम० ।
वाचस्पत्यम्
शश || प्लुतगतौ भ्वा० पर० सक० सेट् । शशस्ति । अशाशीत् अशशीत्
शब्दकल्पद्रुमः
शशः || पुं, (शशति प्लवेन गच्छतीति । शश + अच् ।)
मृगविशेषः । इत्यमरः ॥ शशारु इति खरगोश इति च भाषा ॥ (यथा, मनौ । २ । २७० । “शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥”)
अस्य मांसगुणाः । स्वादुत्वम् । कषायत्वम् । मलबद्धकारित्वम् । शीतत्वम् । लघुत्वम् । शोथातीसारपित्तरक्तनाशत्वम् । रूक्षत्वञ्च । इति राजवल्लभः । अपि च । “शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ॥” इति राजनिर्घण्टः ॥ अन्यच्च । “शशः शूली लोमकर्णो विलेशयः प्रकीर्त्तितः । शशः शीतो लधुर्ग्राही रूक्षः स्वादुः सदा हितः ॥ वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः । ज्वरातीसारशोषास्रश्वासामयहरश्च सः ॥” इति भावप्रकाशः ॥ श्राद्धेऽस्य मांसस्य दानफलं यथा, —
“हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” इति श्राद्धतत्त्वम् ॥ विष्णवे एतन्मांसस्य देयत्वं यथा, —
“मार्गं मांसं तथा च्छागं शाशं समनुयुज्यते । एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥” इत्येकादशीतत्त्वम् ॥ चन्द्रलाञ्छनः । इति धरणिः ॥ वोलः । लोध्रः । मनुष्यविशेषः । इति मेदिनी ॥ स तु चतुर्व्विध- पुरुषान्तर्गतपुरुषविशेषः । तस्य लक्षणं यथा, —
“मृदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादी शशोऽयम् ॥” इति रतिमञ्जरी ॥
शब्दकल्पद्रुमः
शश || प्लवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
शशी शशिशुशीः शशन्निति किरातयमकात् । शशति भेकः प्लवेन गच्छ तीत्यर्थः । तृ फल भज इत्यत्र वर्ज्जनमस्यैव । दन्त्यान्तोऽयमपीत्येके । इति दुर्गादासः ॥