संस्कृत-शब्दकोशः

शान्ता शान्तिक

शान्ति

वाचस्पत्यम्

शान्ति ||‍ स्त्री शम—क्तिन् । १ कामक्रोधादिजये २ विषयेभ्यो मनसो निवाइणे अमरः । ३ उपद्रवनिवारणे ४ निवारणे च “यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु । या तुष्टिर्जायते चित्ते सा शान्तिः कथ्यते बुधैः” पद्मपु० क्रियायो उक्ते ५ सन्तोषभेदे ६ दुर्गायाम् “सर्वज्ञा सर्ववेत्तृ- त्वात् शान्तित्वाच्छान्तिरुच्यते” देवीपु० । ७ पूजाहोम- जपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौःस्थ्यदुः- स्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तौ च “यथा शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघा- तानां शान्तिर्भवति वारणम्” मलमासधृतवाक्यम् । सा च मलमासेऽपि कार्य्या नैमित्तिकत्वात् “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्य्याणि न कालस्तु विधीयते” इति मल० त० वाक्यात् । अद्भु- तादिशान्तिश्च हेमाद्रिशान्तिकाण्डे शान्तिमयूस्रादौ दृश्या ।


शब्दकल्पद्रुमः

शान्तिः || पुं, वृत्तार्हद्विशेषः । जिनचक्रवर्त्तिविशेषः । इति हेमचन्द्रः ॥ दशमन्वन्तरीयेन्द्रः । यथा, —
“धर्म्मपुत्त्रस्य पुत्त्रांस्तु दशमस्य मनोः शृणु । सुक्षेत्रश्चोत्तमौजाश्च भूमिश्रेण्यश्च वीर्य्यवान् ॥ शतानीको निरमित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्च्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ आपो मूर्त्तिर्हविष्मांश्च स्वकृतिश्चाव्ययस्तथा । नाभागोऽप्रतिमश्चैव सौरभा ऋषयस्तथा ॥ प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा । वालिशत्रुस्तं हरिश्च गदया धातयिष्यति ॥” इति गारुडे ८७ अध्यायः ॥


शब्दकल्पद्रुमः

शान्तिः || स्त्री (शम + क्तिन् ।)
कामक्रोधादि- प्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य इन्द्रियोपरमः । इति चण्डीटीकायां नागोजी- भट्टः ॥ तत्पर्य्यायः । शमथः २ शमः ३ । इत्य- मरः ॥ प्रशमः ४ उपशमः ५ प्रशान्तिः ६ । इति शब्दरत्नावली ॥ तृष्णाक्षयः ७ । इति हेमचन्द्रः ॥ तल्लक्षणं यथा, —
“यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु । या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः ॥” इति पद्मपुराणे क्रियायोगसारे १५ अध्यायः ॥ भद्रम् । इति हेमचन्द्रः ॥ गोपीविशेषः । यथा, राधिकोवाच । “शान्त्या गोप्या युतस्त्वञ्च दृष्टोऽहं रासमण्डले । वसन्तपुष्पशय्यायां माल्यवान् चन्दनोक्षितः ॥ रत्नप्रदीपैर्युक्तश्च रत्ननिर्म्माणमन्दिरे । रत्नभूषितभूषाढ्यो रत्नभूषितया सह ॥ तया दत्तञ्च ताम्बूलं भुक्तवांश्च पुरा विभो । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं तया ॥ शान्तिर्देहं परित्यज्य भयाद्दीना त्वयि प्रभो । ततस्तस्याः शरीरञ्च गुणश्रेष्ठं बभूव ह ॥ संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा । विश्वे विषयिणे किञ्चित् सत्त्वरूपाय विष्णवे ॥ शुद्धसत्त्वस्वरूपायै महालक्ष्म्यै पुरा विभो । त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किञ्चन । तपस्विभ्यश्च धर्म्माय धर्म्मिष्ठेभ्यश्च किञ्चन ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥
दुर्गा । यथा, —
“उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता । सर्व्वज्ञा सर्व्ववेत्तृत्वाच्छान्तित्वाच्छान्तिरुच्यते ॥” इति देवीपुराणे देवीनिरुक्ताध्यायः ॥ * ॥
धर्म्मद्बारा ग्रहदौःस्थ्यदुःस्वप्नादिसूचितैहिका- निष्टहेतुदुरितनिवृत्तिः । यथा, —
“यथा शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥” वालग्रहभूतग्रहनराधिपप्रबलतरशत्रुदुःसह- रोगाभिभवाद्भुतदुःस्वप्नग्रहदौःस्थ्यादिनिमित्तकं शान्तिकर्म्मापि मलमासे कर्त्तव्यम् । शुद्धकाल- प्रतीक्षायामसहत्वेनानन्यगतिकत्वात् । अत- एवात्मानं सततं गोपायीत इति श्रुतौ सतत- मत्युक्तम् । इति मलमासतत्त्वम् ॥ * ॥
उप- सर्गशान्तिगाथा यथा, —
“एषामिन्द्रो महावीर्य्यस्त्रैलोक्यस्येश्वरोऽभवत् । शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥ तस्योपसर्गनाशाय नामाक्षरविभूषिता । अद्यापि मानवैर्गाथा गीयतेऽत्र महीतले ॥ सशान्तिर्देवराट् शान्तः सुशान्तिं न प्रयच्छति । सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिभिः ॥” इति मार्कण्डेयपुराणे उत्तममन्वन्तरसमाप्ता- ध्यायः ॥ * ॥
अथाद्भुतशान्तिः । तत्राद्भुतनिरूपणम् । अद्- भुतसागरे आथर्व्वणाद्भुतवचनम् । प्रकृति- विरुद्धमद्भुतमापदः प्राक्प्रबोधाय देवाः सृज- न्तीति । तेनापज्ज्ञानाय भूम्यादीनां पूर्व्वं स्वभावप्रच्यवो देवकर्त्तृकोऽद्भुत इति । एवञ्च बुधोदयपर्व्वणि ग्रहादीनां गणितागणितत्वेन प्रकृतानामपि यदुत्पातत्वं तद्भाक्तम् । तत्कार- णञ्च गर्गसंहिताबार्हस्पत्ययोः । “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः । ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान् ॥ त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ॥” तांश्च परं न दर्शयेदित्याह विष्णुः । नोत्पातं दर्शयेदिति । तत्र वेलानक्षत्रमण्डलनिरूपणम् । यथा, दीपिकायाम् । “प्राग्द्वित्रिचतुर्भागैर्द्यूनिशोरद्भुतेषु सर्व्वेषु । अनिलाग्निशक्रवरुणा मण्डलपतयः शुभा- शुभैश्च ॥” वेलामण्डलः । “अर्य्यम्णादिचतुष्कचन्द्रतुरगादित्येषु वायु- र्भवेत् देवेज्याजविशाखयाम्ययुगले पित्र्यद्बये चानलः । विश्वादित्रयधातृमैत्रयुगलेष्विन्द्रो भवेन्मण्डलः सर्पोपान्त्यशतान्त्यमूलयुगलेशानेष्वपामीश्वरः ॥ पवनदहनौ नेष्टौ योगस्तयोरतिदोषदः । सुरपतिवरुणौ शस्तौ योगस्तयोरतिशोभनः ॥ सवरुणमरुन्मिश्रः शक्रस्तथाग्निसमायुतः । फलविरहितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बुपः ॥ यन्मण्डलेऽद्भुतं जातं शान्तिस्तद्देवताश्रया । तथा शान्तिद्वयं कार्य्यं मण्डलद्वयजाद्भुते ॥” * ॥
विष्णुधर्म्मोत्तरे । “ग्रहर्क्षवैकृतं दिव्यं आन्तरीक्षं निबोध मे । उल्कापातो दिशां दाहः परिवेशस्तथैव च ॥ गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता तथा । एवमादीनि लोकेऽस्मिन् नाभसानि विनिर्द्दि- शेत् ॥ चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥ भौमं चाल्पफलं ज्ञेयं चिरेण परिपच्यते । नाभसं मध्यफलदं मध्यकालफलप्रदम् । दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारी तथैव च ॥ * ॥
शीतोष्णताविपर्य्यासः ऋतूतां रिपुजं भयम् । पुष्पे फले च विकृते राज्ञो मृत्युं तथा दिशेत् ॥ अकालप्रभवा नार्य्यः कालातीताः प्रजास्तथा । विकृताः प्रसवाश्चैव युग्मप्रसवनं तथा ॥ हीनाङ्गाः अधिकाङ्गाश्च जायन्ते यदि वा त्रयः । पशवः पक्षिणश्चैव तथैव च सरीसृपाः ॥ विनाशं तस्य देहस्य कुलस्य च विनिर्द्दिशेत् ॥ प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः । अर्कोदयेऽर्काभिमुखः श्वारावो नृभयं दिशेत् ॥ उलूको वसते यत्र निपतेद्वा तथा गृहे । ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥ गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च । चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव च ॥ गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते । पक्षान्मासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः । पत्न्याः पुत्त्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति ॥ ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा । गृह्णीयाद्यदि रोचेत शान्तिञ्चेमां प्रयोजयेत् ॥” इमां वक्ष्यमाणाम् ॥ * ॥
“मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः । श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥ विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः ॥ संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा । अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥ अकाले फलपुष्पाणि देशविद्रवकारणम् ॥” मत्स्यपुराणे । “अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतम् । अनृतौ तु दिनादूर्द्ध्वं वृष्टिर्ज्ञेया भयाय च ॥ निरभ्रे वाथ रात्रौ वा श्वेतं यस्योत्तरेण तु । इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥ दिग्दाहपरिवेशौ च गन्धर्व्वनगरं तथा । परचक्रभयं विद्याद्देशोपद्रवमेव च ॥” भासो वनकुक्कुटः ॥ * ॥
कंसनिधनसूचने हरि- वंशः । “वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः । चलत्यपर्व्वणि मही गिरीणां शिखराणि च ॥” वाणोत्पाते स एव । “दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् । वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः ॥” * ॥
कृत्यचिन्तामणौ । “त्यक्ताशौचविवेकतत्त्ववसुधा लोकाः क्षुधा- पीडिताः विप्रा वेदहतास्तथा प्रचलिता बह्वाशिनो दुःखिताः । क्षौणीमन्दफला नृपाश्च विकलाः संग्रामघोरा मही प्रेताघातदुरन्तपीडिततरा देवेज्यराह्वोर्युतौ ॥ रक्ते शस्त्रोद्योगो मांसास्थिवशादिभिर्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं विद्यात् । अङ्गारपांशुवर्षे विनाशमुपयाति तन्नगरम् ॥ उपलं विना जलधरैर्विकृता वा यदा प्राणिनो वृष्ट्या । छिद्रं वाप्यतिवृष्टिं शस्यानामीतिसंजननम् ॥” बुधकौशिकसंवादे । “वल्ल्याः प्रपाते च फलं शरटस्य प्ररोहणे । शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च ॥ कर्णयोर्भूषणावाप्तिर्नेत्रयोर्व्वन्धुदर्शनम् । नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम् ॥ कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् । धनलाभो बाहुमूले करयोर्धनवृद्धिदः ॥ स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम् । पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम् ॥ कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः । जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ॥ उर्व्वोस्तु वाहनावाप्तिर्ज्जानुजङ्घेऽर्थसंक्षयः । वामदक्षिणयोः पादे भ्रमणं नियतं भवेत् ॥ वल्ल्याः प्ररोहणे चैव पतने शरटस्य च । व्यत्यासाच्च फलञ्चैव तद्वदेव प्रजायते ॥ वल्ल्याः प्ररोहणं रात्रौ शरटस्य प्रपातनम् । निधनार्थाय भवति व्याधिपीडा विपर्य्यये ॥ पतनानन्तरं चैवारोहणं यदि जायते । पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ॥ आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातनम् ॥ भवेदिष्टफलं तस्य तत्काले जायते ध्रुवम् ॥ * ॥
स्पृष्टमात्रे तयोः सद्यः सचेलं जलमाविशेत् । पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम् ॥ वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् । पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके ॥ पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् । पञ्चवृक्षकषायञ्च निक्षिप्यावाहयेत्ततः ॥ पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा ग्रहान् । मृत्युञ्जयेन मन्त्रेण समिद्भिः खदिरैः शुभैः । तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥” वल्ली गृहगोधिका । मृत्युञ्जयमन्त्रस्त्य्रम्बकमन्त्रः इति विद्याकरः ॥ * ॥
गर्गसंहिताबार्हस्पत्ययोः । “ये तेषु शान्तिं कुर्व्वन्ति न ते यान्ति परा- भवम् । ये तु न प्रतिकुर्व्वन्ति क्रियया श्रद्धयान्विताः । दाम्भिक्याद्बा विमोहाद्वा विनश्यन्त्येव तेऽचि- रात् ॥” * ॥
अत्र निमित्तनिश्चयवतोऽधिकारोऽन्यथा दोष इत्याह मत्स्यपुराणम् । “भिन्नमण्डलवेलायां ये भवन्त्यद्भुताः क्वचित् । तत्र शान्तिद्बयं कार्य्यं निमित्त सति नान्यथा । निर्निमित्तकृता शान्तिर्निमित्तमुपपादयेत् ॥” एतच्च तत्तद्विशेषविहितशान्तिविषयम् । अन्यथा वेलामण्डलसन्देहे शान्तिर्न स्यात् ॥ * ॥
अतएवोक्तं योगियाज्ञवल्क्येन । “यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्त्र्या समुदाहृतः ॥ गायत्त्र्या प्रयतः शुद्धः सर्व्वपापैः प्रमुच्यते । शान्तिकामश्च जुहुयात् गायत्त्रीमक्षतैः शुचिः ॥ हन्तुकामश्च नृपतेर्घृतेन जुहुयात् शुचिः । सावित्र्या शान्तिहोमांश्च कुर्य्यात् पर्व्वसु नित्यशः ॥ प्रणवव्याहृतिभ्याञ्च स्वाहान्तो होमकर्म्मणि । प्रतिलोमा प्रयोक्तव्या फट्कारान्ताभिचारिके ॥ मार्कण्डेयपुराणम् । “दिग्देशजनसामान्यं नृपसामान्यमात्मनि । नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् । परस्पराभिरक्षा च ग्रहदोषेषु जायते ॥” तथा । “तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा । लोकवादांश्च शान्तीश्च ग्रहपोडासु कारयेत् ॥ भूदोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् । कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्ज्ज- नम् ॥ अद्रोहं सर्व्वभूतेषु मैत्रीं कुर्व्वन्ति पण्डिताः । वर्ज्जयेदुषतीं वाचमतिवादांस्तथैव च ॥ ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः । एवं शाम्यन्त्यशेषाणि घोराणि द्बिजसत्तम । प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यनेकशः ॥” * ॥
लोकवादाश्च तत्रैवोक्ता यथा, —
“आकाशाद्देवतानाञ्च देव्यादीनाञ्च सौहृदात् । पृथिव्यां प्रतिलोके च लोकवादा इति स्मृताः ॥” ते च सर्व्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकि- कौषधमन्त्रादयः । विषहरीमङ्गलचण्डिका- गीतादयः । चैत्यवृक्षादौ क्षेत्रपालकुलदेवता- पूजा च ॥ * ॥
तथा चापस्तम्बः । स्त्रीभ्योऽवर- वर्णेभ्यो धर्म्मशेषान् प्रतीयादित्येक इति । धर्म्म- शेषात् श्रुतिस्मृतिसदाचारेष्वप्रसिद्धान् इति नारायणोपाध्यायाः ॥ भूदोहश्च पात्रं विना भूमौ गोस्तनं निष्पीड्य दुग्धोत्सर्गः । चैत्यः पूज्यत्वेन ख्यातो ग्रामप्रधानवृक्षः । तथा च बाणोत्पाते हरिवंशः । “अनेकशाखश्चैत्यश्च निपपात महीतले । अर्च्चितः सर्व्वकन्याभिर्दानवानां महात्मनाम् ॥” उषतीं अकल्याणीम् । अतिवादश्च पूज्यमति- क्रम्य भाषणम् ॥ * ॥
मत्स्यपुराणम् । “काकस्यैकरवश्रावः प्रभाते दुःखदायकः । काको मैथुनकासक्तः श्वेतो वा यदि दृश्यते ॥ उलूको वसते यत्र निपतेत् वा तथा गृहे । ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥” * ॥
वराहसंहितायाम् । “क्रीडानुरक्तो रतिमांसलुब्धो भीतो रुजार्त्तः पतितो विहङ्गः । नासौ गृहस्थस्य विनाशहेतु- र्दोषः समुत्पाद्यत आहुरार्य्याः ॥ गृहे पक्षिविकारेषु कुर्य्याच्चामरतर्पणम् । देवाः कपोता इति वा जप्तव्यं सप्तभिर्द्विजैः ॥ गावश्च देया विविधा द्बिजानां सकाञ्चना वस्त्रयुगोत्तरीयाः । एवं कृते पापमुपैति शान्तिं मृगैर्द्विजैर्वापि निवेदितं तत् ॥” द्विजैः पक्षिभिः । अपिना अन्यैरपि ॥ * ॥
भुजबलभीमे । “एको वृषस्त्रयो गावः सप्ताश्वा नव दन्तिनः । सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातिकाः ॥” सिंहप्रसूतिका गावः ॥ * ॥
मत्स्यपुराणे । “अङ्गे दक्षिणभागे तु शस्तं विस्फुरणं भवेत् । अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥ लाञ्छनं पिटकञ्चैव ज्ञेयं विस्फुर्ज्जितं तथा । विपर्य्ययेण विहितं सर्व्वं स्त्रीणां फलं तथा ॥” “अनिष्टचिह्नोपगमे द्बिजानां कार्य्यं सुवर्णेन च तर्पणं स्यात् ।” शङ्खः । दुःस्वप्नानिष्टदर्शनादौ घृतं हिरण्यञ्च दद्यादिति ॥ * ॥
मात्स्ये । “नमस्ते सर्व्वलोकेश नमस्ते भृगुनन्दन । कवे सर्व्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते एवं शुक्रोदये कुर्व्वन् यात्रादिषु च भारत । सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ बृहस्पते । क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥ संक्रान्तावपि कौन्तेय यात्रास्वभ्युदयेषु च । कुर्व्वन् बृहस्पतेः पूजां सर्व्वान् कामान् सम- श्नुते ॥ * ॥
वैष्णवामृते व्यासः । “ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज । महाशान्तिकरः श्रीमान् तुलस्या पूजितो हरिः उत्पादान् दारुणान् पुंसां दुर्निमित्ताननेकशः । तुलस्या पूजितो भक्त्या महाशान्तिकरो हरिः ॥” अत्र ब्रह्मपुराणीयो मन्त्रः । “नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहेति ॥ * ॥
” छन्दोगपरिशिष्टम् । अथातो रजस्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजनने विजातीय- जनने वा काककङ्कगृध्रवकश्येनभासचिल्लकपोता- नां गृहप्रवेशे मानुषस्योपरिविश्रामणे एषा- मेव क्रियमाणे गृहद्वारारोहणे अन्येषु चाद्- भुतेषु कल्पदृष्टेन विधिनाग्निमुपसमाधाय प्राय- श्चित्ताज्याहुतीर्ज्जुहोति अद्भुताय अग्नये स्वाहा सोमाय विष्णवे रुद्राय वांयवे सूर्य्याय मृत्यवे विश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकावृतान्य- दिति ॥ * ॥
कपोतं विशेषयति शौनकः । “रक्तपादः कपोताख्यो अरण्यौकाः शुकच्छविः । स चेच्छालां विशेच्छालासमीपञ्च व्रजेद्यदि । अन्येषु गृहमध्ये वा वल्मीकस्योद्गमादिषु ॥” कल्पदृष्टेन विधिना गृह्योक्तेन प्रायश्चित्ताज्या- हुतीः अद्भुतदोषप्रशमनार्थाः सप्ताज्याहुतीः अद्भुतायाग्नये स्वाहा इत्यादिमन्त्रैः तत्स्थाली- पाकेति कर्त्तव्यतया पायसचरुभिरेतेभ्यो देवेभ्यो जुहुयात् । छन्दोगपरिशिष्टम् । पश्चात् घृत- पायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा शान्तिर्भवतीति । गोवरं गोश्रेष्ठम् । दक्षिणां तां गां कृत्वा दोषशान्तिर्भवतीति । तथा चोक्तम् । “गोर्विशिष्टतमा लोके वेदेष्वपि निगद्यते । न ततोऽन्यद्वरं यस्मात् तस्माद्गौर्वरमुच्यते ॥” छन्दोगपरिशिष्टम् । यस्त्वेषामन्यतममापन्नः प्राय- श्चित्तं न कुर्य्यात्तस्य गृहपतेर्मरणं सर्व्वस्वनाशो वा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्म्माप- वर्गे वामदेव्यगानं शान्तिः शान्तिरिति । अप- वर्गे समाप्तौ । वामदेव्यगानं शान्तिः कार्य्या । आवृत्तिः प्रकरणसमाप्त्यर्था । बार्हस्पत्ये । “शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्त- माश्वेव । अतिवर्षणोपवासव्रतदीक्षाजप्यहवनानि ॥ * ॥
” वराहः । “ये च न दोषं जनयन्त्युत्पातान् तानृतुस्वभाव- कृतान् । ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेभिः समासोक्तैः ॥” तथा च मत्स्यपुराणम् । “वज्राशनिमहीकम्पसन्ध्यानिर्घातनिस्वनाः । परिवेशरजोधूमरक्तार्कास्तमयोदयाः ॥ द्रुमेभ्योऽथ रसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ * ॥
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वंलनं स्फोटं धूमरेणुनिराकुलम् ॥ रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् । सरिताञ्चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ * ॥
शक्रायुधपरीवेशौ विद्युच्छुष्कविरोहणम् । कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥ नद्युदपानसरसां वृष्ट्यृद्ध्या भवनप्लवाः । पतनञ्चाद्रिगेहानां वर्षासु न भयावहम् ॥” हरिवंशे वर्षावर्णनायाम् । “क्वचित् कन्दरहासाढ्यं शिलीन्ध्राभरणं क्वचित् ।” इति दर्शनात् वर्षासु शिलीन्ध्रोद्गमो न भयावहः ॥ “दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनञ्च दिवाम्बरे ॥ गीतवादित्रनिर्घोषो वनपर्व्वतसानुषु । शस्यवृद्धी रसोत्पत्तिरपापाः शरदि स्मृताः ॥ * ॥
शीतानिलतुषारत्वं नर्द्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥ दिशो धूमान्धकाराश्च शलभा वनपर्व्वताः । उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥ * ॥
हिमपातानिलोत्पपातविरूपाद्भुतदर्शनम् । दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥ चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणाम् । पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥ * ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः । ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ * उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥ पूर्व्वञ्चरति देवेषु पश्चाद्गच्छति मानुषान् । नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥” बृहस्पतिः । “ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् । श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥” विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वम् ॥ * ॥
भौमदिव्यान्तरीक्षोत्पातशान्तिर्मात्स्ये २०२ अध्यायावधि २१२ अध्यायपर्य्यन्तं द्रष्टव्या । तथा देवीपुराणे महाभ्युदयपादे सर्व्वदैवकी- सर्व्वोत्पातशान्तिसमाप्ताध्याये चण्डीशब्दे च द्रष्टव्या । तन्त्रोक्ता शान्तिः षट्कर्म्मशब्दे द्रष्टव्या ॥ * ॥
अथ शान्तिकपौष्टिककर्म्मदिनम् । तत्र वारा रविसोमबुधबृहस्पतिशुक्राणां तत्र नक्षत्राणि उत्तराषाढा उत्तरफल्गुणी उत्तर- भाद्रपत् रोहिणी चित्रा अनुराधा मृगशिरः रेवती पुष्या अश्विनी हस्ता । तत्र चन्द्रः शोभनः । लग्नं शोभनम् । इति ज्योतिषतत्त्वम् ॥



Correction: