वाचस्पत्यम्
शिरस् || न० शॄ—असुन् नि० । १ मस्तके २ शिखरे अमरः । ३ प्रधाने ४ सेनाग्रे मेदि० ।
शब्दकल्पद्रुमः
शिरः || [स्] क्ली, (श्रि + “श्रयतेः स्वाङ्गे शिरः किच्च ।” उणा० ४ । १९३ । असुन् । सच कित् । धातोः शिरादेशश्च ।)
शिखरम् । (यथा, महाभारते । ४ । २३ । २ । “यथा वज्रेण वै दीर्णं पर्व्वतस्य महच्छिरः ॥”)
मस्तकम् । इत्यमरः ॥ (यथा, लक्ष्मीचरित्रे । “शिरः सपुष्पं चरणौ सुपूजितौ ॥”)
तच्च मासमात्रेण भवति । इति सुखबोधः ॥ तद्रोगनाशकौषधम् । यथा, —
“शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ।” इति गारुडे १८८ अध्यायः ॥ प्रधानम् । (यथा, भागवते । ५ । १४ । ४५ । “योगाय सांख्यशिरसे प्रकृतीश्वराय ॥”)
सेनाग्रम् । इति मेदिनी ॥