संस्कृत-शब्दकोशः

शुचा शुचिता

शुचि

वाचस्पत्यम्

शुचि ||‍ पु० शुच—कि । १ वह्नौ २ चित्रकवृक्षे ३ आषाढमासे ४ शृङ्गाररसे अमरः । ५ ज्यैष्ठमासे मेदि० ६ शुद्धाचरणे ७ ग्रीष्मे ८ ऋतौ ९ शुद्धमन्त्रिणि मेदि० । १० अग्निभेदे “पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निमथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः । यश्चाग्नौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः” कूर्मपु० १२ अ० । ११ श्वेत- वर्णे १२ तद्वति त्रि० अमरः । शुचित्वञ्च शौचं शुद्धता वैदिककर्मार्हत्वप्रयोजकः संस्कारविशेषः । “शुचिस्तत्- कालजीवी कर्म कुर्य्यात्” श्रुतौ शौचस्य कर्माङ्गत्वं, स च स्नानादिजन्यः पुण्यभेदो वा । १३ मूर्ये च “तपनस्तापन- श्चैव शुचिः सप्ताश्ववाहनः” सूर्यस्तवः । १४ अर्कवृक्षे १५ काश्यपत्न्यास्ताम्रायाः कन्याभेदे स्त्री “षट्सुताश्च महा सत्त्वास्ताम्रायाः परिकीर्त्तिताः । शुकी श्येनी च भासे च सुग्रीवी शुचिगृध्रिके” गरुडपु० ६ अ० । १६ शुद्धे १७ अनुपहते त्रि० मेदि० ।


शब्दकल्पद्रुमः

शुचिः || त्रि (शुच + इन् ।)
शुक्लगुणविशिष्टः । इत्यमरः ॥ शुद्धः । (यथा, महाभारते । १ । १२८ । ४९ । “क्रीडावसाने ते सर्व्वे शुचिवस्त्राः स्वल- ङ्कृताः ॥”)
अनुपहतः । इति मेदिनी ॥ * ॥
परस्वर्णस्पर्शे हस्तक्षालनात् शुचिर्यथा, —
“दैवात् परस्त्रियं दृष्ट्वा विरमेद् यो हरिं स्मरन् स्पृष्ट्वा परसुवर्णञ्च हस्तप्रक्षालनात् शुचिः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ (निरपराधी । यथा, महाभारते । १ । १४९ । १४ । “अहो धिक् धृतराष्ट्रस्य बुद्धिर्नास्ति समञ्जसी यः शुचीन् पाण्डुदायादान् दाहयामास शत्रुवत् ॥” शुद्वान्तःकरणः । यथा, मनुः । ७ । ३८ । “वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदो शुचीन् वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥”)


शब्दकल्पद्रुमः

शुचिः || पुं, (शुच्यति अनेनेति । शुच + “इगुप- धात् कित् ।” उणा ० ४ । ११९ । इति इन् । सच कित् ।)
अग्निः । (यथा, भागवते । ४ । २४ । ४ । “पावकः पवमानश्चः शुचिरित्यग्नयः पुरा । वशिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥”)
चित्रकवृक्षः । आषाढमासः । शुक्लवर्णः । शृङ्गाररसः । इत्यमरः ॥ ग्रौष्मः । शुद्धमन्त्री । ज्यैष्ठमासः । इति मेदिनी ॥ सौराग्निः । यथा “पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्म्मथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः ॥ यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः । तेषान्तु सन्ततावन्ये चत्वारिंशत्तु पञ्च च ॥ पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद्वह्नयः परिकीर्त्तिताः ॥” इति कौर्म्मे १२ अध्यायः ॥ सूर्य्यः । यथा, —
“तपनस्तापनश्चैव शुचिः सप्नाश्ववाहनः ॥” इति शाम्बपुराणम् ॥ चन्द्रः । शुक्रः । ब्राह्मणः । इति केचित् ॥ (अन्धकस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । १९ । “कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ॥” कार्त्तिकेयः । इति महाभारतम् । ३ । २३१ । ४ ॥)


शब्दकल्पद्रुमः

शुचिः || स्त्री (शुच + इन् ।)
कश्यपपत्न्या- स्ताम्रायाः सुता । यथा, —
“षट सुताश्च महासत्त्वास्ताम्रायाः परि- कीर्त्तिताः । शुकी श्येनी च भाषा च सुग्रीवी शुचि- गृध्रिका ॥” इति गारुडे ६ अध्यायः ॥



Correction: