वाचस्पत्यम्
शेष || पु० शिष—अच् । १ अनन्ते सर्पराज सर्पभेदे २ बलदेवे च मेदि० । ३ अवशेषे अमरः । ४ गजे ५ उपयुक्तेतरवस्तूनि अजयपालः । ६ भगवतो कालसंज्ञमूर्त्तौ “एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणा- तीता सुनिष्कला । द्वितीया कालसंज्ञा च तामसी शेष- संज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः” कूर्मपु० ४८ अ० । “शेषे पष्ठी” पा० सू० उक्तादन्यः शेषः” भाष्यादयः । परोद्देशेन प्रवर्त्तमाने ७ मणीभूते अस्य लक्षणविषयादि मीमांसासूत्रभाष्यादौ दर्शितं यथा “शेषः परार्थत्वात्” सू० “इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेषः इत्युच्यते, तदुभयमाख्यायते । यः मरस्योपकारे बर्त्तते, स शेषः इत्युच्यते, यथा, ये परार्थाः, ते वक्तारो भवन्ति, शेषभूता वयमिह इति । ननु योऽपि प्रधानभूतः सोऽपि कदाचित् परार्थे वर्त्तते, यथा उपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्त्तते । सत्यं वर्त्तते, यस्त अत्यन्तं परार्थः, तं वयं शेषः इति ब्रूमः, यथा, गर्भदासः कर्मार्थ एव स्तामिनो- ऽनड्वांश्च क्रीयते, वक्ष्यति इत्य व । ननु गर्भदासस्यापि स्वामी संविटघानो गुणभावमायात् । न इति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तुरीय- कत्वात् गर्भदासस्योपकरोति, अनडुहो वा, यस्त्वत्यन्त परार्थः, तं वयं शेषः इति ब्रूमः । अथ तत्र किं वृ- त्तम्? । यैस्तु द्रव्यं चिकीर्ष्यते गुणः तत्र प्रतीयेत इति, तत्र अपूर्वार्थता व्यावर्त्तिता, दृष्टप्रयोजनानामा ख्यातानाम् । इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते” शव० भा० । तस्य लक्ष्याणि तत्राह “द्रव्यगुणसंस्कारेषु वादरिः” सू० “वादरिराचार्यः अत्र द्रव्यगुणसंस्कारेष्वेव शेषशब्दः इति मेने, न यागफलपुरुषेषु! द्रव्यं क्रि- यार्थं, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्त्तयितव्या, तस्या निंर्वृत्तिर्द्रव्यादृते न भवति इति तन्निर्वृत्तये द्रव्यमेषितव्यं भवति, तस्मात् क्रियार्थं द्र- व्यम् । गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधन- त्वात्, तस्मात् सोऽपि द्रव्यद्वारेण क्रियाया उपकरोति इति क्रियार्थ एव । संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो मवति योग्यः कस्यचित् अर्थस्य, तेनापि क्रियायां कर्त्तव्यायां प्रयोजनम् इति सोऽपि परार्थः । तस्मात् द्रव्यगुणसंस्काराः परार्थत्वात् शेषभूताः । न तु यागफलपुरुषाः । यागः तावत् कर्त्तव्यः पुरुषस्य, न हि, तस्मिन् निर्वर्त्तिते किञ्चित् अपरमस्ति कर्त्तव्यम् । स हि पुरुषार्थः, यदन्यत् द्रव्यादि, तत् तदर्थं तस्य शेषभूतम्, स तु न किञ्चिदभिनिर्वर्त्तयितुम् क्रियते । फलमपि न तेन क्रियते, तस्मित तु कृते स्वयमेव तत् भवति । तस्मिन् कृते फलमस्य भवति पृत्येतावत् गम्यते, नास्ति शब्दो यागेन क्रियते फलमिति । तस्मात् यागो न शेषभूतः कस्यचित् अर्थस्य । फलमपि न पुरुष प्रत्यु- पदिश्यते, यः स्वर्गं कामयते, स यागं कुर्य्यादित्येतावत् शब्देनीपदिश्यते, नात्मनः परस्य वा इति, स्वर्गं प्रती- च्छामात्रेण स्वर्भकामः इति भवति, तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः, तस्मात् सोऽपि न शेषभूतः । न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधा- नभूती भवति? प्रत्यक्षश्चास्य द्रव्यत्वात् कर्म प्रति गुण- भभावः । तस्मात् द्रव्यगुणसंस्कारेष्वेष शेषभावं वादरि- र्मेने” शब० भा० । “कर्माण्यपि जैमिनिः, फलार्थत्वात्” सू० “जैमिनिस्तु स्वल्वाश्चार्य्यः कर्माण्यपि शेषभूतानि मन्यते अ, न वादरिरिवावधारणामनुमेने, स हि ददर्श, यागः कर्त्तव्यतया चोद्यते, फलकामस्य तु तत्साधनो- पावत्वेन इति । एवं श्रुतोऽर्थः परिगृहीतो भविष्यति, अर्थवांश्चोपदेशः । एतभेवार्थं षष्ठेऽध्याये सूत्रैरेव साध- यिष्यति । इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म । तस्मात् अनवधारणा द्रव्यगुणसं- स्काराः शेषभूताः यागोऽपि शेषभूतः फलम्प्रति” भा० । “फलं च पुरुषार्थत्वात्” सू० । “फलमपि पुरुषं प्रत्युपदि- श्यते, यः, स्वर्गो मे भवेत् इत्येवं कामयते, तस्य यागः न यः स्वर्गः, स आत्मानं लभेत इति । आत्मनेपद- प्रयोगात्, कर्त्त्रभिप्राये एतत् भवति, क्रियाफलमनु- भवेत् कथं पुरुषः? इति यागः प्रयुज्यते । तस्मात् फलं पुरुषार्थं यागात् श्रूयते नात्मनिर्वृत्त्यर्थम् । तस्मात् शेष- भूतम् इति” भा० । “पुरुषश्च कर्मार्थत्वात्” सृ० । “पुरुषोऽप्यौ- दम्बरीसम्भानादिषु गुणभूतः श्रूयते । तस्मात् अनवधा- रणा एषा, द्रव्यगुणसंस्कारेषु शेषत्वं वार्दरिर्मेने इति” । “अथ इदानीमत्रानुशयवान् वृत्तिकारः परिनिश्चिकाय, द्रव्यगुणसंस्कारेष्वेव नियतो यजिम्प्रति शेषभावः, आपे- क्षिक इतरेषाम् । यागस्य द्रव्यम्प्रति प्रधानभावः, फल- म्प्रति गुणभावः, फलस्य यागम्प्रति प्राधान्यम्, पुरुषम्प्रति गुणता, पुरुषस्य फलम्प्रति प्रधानता, औदुम्बरीसम्मा- नादि प्रति गुणत्वम् तस्मात् सम्मता अवघारणा, द्रव्य- गुणसंस्कारा यागम्प्रति नियमता गुणभूता एव” भा० कस्यचित् शेषरक्षणनिषेधो यथा “ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । पुनःपुनः प्रवर्द्धन्ते तस्मात् शेषं न कारयेत्” गरुडपु० “प्रसादान्निजनिर्माल्यदाने शेषेति कीर्त्तिता” विश्वोक्ते खामिना प्रसाददत्ते ८ माल्ये स्त्री “तथेति शेषामिव भर्तुराज्ञाम्” कुमारः ।
शब्दकल्पद्रुमः
शेषं || क्ली (शिष्यते यदिति । शिष + घञ् ।)
प्रसादः । इति मेदिनी । षे, २८ ॥
शब्दकल्पद्रुमः
शेषः || पुं, (शेषति सङ्कर्षतीति । शिष हिसायाम् + अच् ।)
सङ्कर्षणः । स तु बलदेवः । (यथा, माघे । २ । ६८ । “निशम्य ताः शेषगवी रभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमादिशत् दृशा ॥” शिष वधे + भावे घञ् ।)
वधः । अनन्तः । स च सर्पराजः । इति मेदिनी ॥ (यथा, कुमारे । ३ । ३ । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥”)
तस्य ध्यानं यथा, —
“फंणासहस्रसंयुक्तं चतुर्ब्बाहुं किरीटिनम् । नवाम्रपल्लवाकारं पिङ्गलश्मश्रुलोचनम् ॥ पीताम्बरधरं देवं शङ्ग्वचक्रगदाधरम् । कराग्रे दक्षिणे पद्मं गदां तस्याप्यधःकरे । दधानं सर्व्वलोकेशं सर्व्वाभरणभूषितम् । क्षीराब्धिमध्ये श्रीमन्तमनन्तं पूजयेत्ततः ॥” इति भविष्यपुराणम् ॥ गजः । नागः । स्वीकृतेतरवस्तु । इत्यजयपालः ॥ भगवतो द्वितीया मूर्त्तिः । यथा, —
“एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥” इति कौर्म्मे ४८ अध्यायः ॥ शेषशयनप्रकारो यथा, —
“अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः । तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम् ॥ तस्योपधानमकरोदनन्तो दक्षिणां फणाम् । उत्तरां पादयोश्चक्रे उपधानं महाबलः । तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् ॥ स्वयन्तु बीजयामास शेषरूपी जनार्द्दनम् ॥ शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः । ऐशानयाथ फणया स दध्रे गरुडं तदा ॥ गवां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् । यानि चान्यानि तस्यासन्नाग्ने य्या फणया दधौ ॥ एवं कृत्वा स्वकं काय शयनीयं तदा हरेः । भूतभव्यजगन्नाथं परापरपतिं हरिम् ॥ दधार शिरसानन्तः स्वयमेव स्वकां तनुम् । एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः । सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः ॥” इति कालिकापुराणे २७ अध्यायः ॥
शब्दकल्पद्रुमः
शेषः || पुं, क्ली, (शिष्यते इति । शिष + घञ् ।)
उपयुक्तेतरवस्तु । इति मेदिनी ॥ शेषोऽवशिष्ट- मवशिष्टता च शेषः शेषञ्चे त्यादि । अनन्ते तु शेषः पुंलिङ्ग एव शिष्टप्रयोगात् । उक्तादन्यः शेषः यथा । शङ्खपद्मौ निधिवाचकौ पुलिङ्गौ जलजे तूभयलिङ्गौ इति सर्व्वानन्दः । इत्यमर- टीकायां भरतः ॥ * ॥
ऋणादिशेषरक्षणनिवेधो यथा, —
“ऋणशेषञ्चाग्निशेषं शत्रशेषं तथैव च । पुनः पुनः प्रवर्द्धन्ते तस्मात् शेषं न कारयेत् ॥” इति गारुडे ११६ अध्यायः ॥ (अवशिष्टे, त्रि । यथा, रघुः । ४ । ६४ । “अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ॥” तथाच रामायणे । २ । २६ । ३२ । “वन्धितव्यस्त्वया नित्यं याः शेषा मम मातरः