वाचस्पत्यम्
शोष || पु० शुष—घञ् । १ वातादिना रसाद्यपहारेण कठिनता- करणे । शोघयति शुष—णिच्—अच् । २ यक्ष्मरोगे मेदि० ।
शब्दकल्पद्रुमः
शोषः || पुं, (शुष् + भावे घञ् । शोषनम् । इति मेदिनी ॥ (शुष्यत्यनेनेति । शुष् + करणे घञ् ।)
यक्ष्मरोगः । इत्यमरः ॥ तद्रोगस्यौपधं यथा, —
“वया त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्चिष्टा त्रिफला श्वेता शिरीषो रजनीद्वयम् प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् । नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्वारे च शामनम् ॥” इति गारुडे १९९ अध्यायः ॥