संस्कृत-शब्दकोशः

श्राव श्रावण

श्रावक

वाचस्पत्यम्

श्रावक ||‍ पु० त्रि० श्रु—ण्वुल् । १ श्रवणकर्त्तरि २ शाक्यमुनि- शिव्ये मुनिभेदे ३ काके पुंरवी० त्रिका० ।


शब्दकल्पद्रुमः

श्रावकः || पुं, (शृणोतीति । श्रु + ण्वुल् ।)
शाक्य- मुनिशिष्यविशेषः । काकः । इति त्रिकाण्ड- शेषः ॥ (श्रावयतीति । श्रु + णिच् + ण्वुल् । दूरध्वनिः । यथा, माघे । ११ । १ । “प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रे र्मागधा मागधाय ॥”)
श्रोतरि, त्रि । (यथा, पुराणम् । “ऋग्वेदश्रावकं पैलं जग्राह विधिवद्द्विजम् । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥”)



Correction: