संस्कृत-शब्दकोशः

श्रोत्रियता श्रौत्र

श्रौत

वाचस्पत्यम्

श्रौत ||‍ त्रि० श्रुतौ विहितमण् । १ वेदविहिते धर्मादौ “श्रौतं क्रर्म स्वयं कुर्य्यात्” कात्या० स्मृतिः । २ गार्हपत्याहवनी- यदक्षिणाग्निषु पु० ।


शब्दकल्पद्रुमः

श्रौतं || क्ली (श्रुतौ भवम् । श्रुति + अण् ।)
गार्ह- पत्याहवनीयदक्षिणाग्नयः । यथा, —
“त्रयो ये गार्हपत्याहवनीयदक्षिणाग्नयः । इदमग्नित्रिकं श्रौतं त्रेताग्निहोत्रमित्यपि ॥” इति जटाधरः ॥


शब्दकल्पद्रुमः

श्रौतः || त्रि (श्रुतौ भवः । श्रुति + अण् ।)
श्रुति- विहितधर्म्मादिः । यथा, —
“धर्मज्ञैर्विहितो धर्म्मः श्रौतः स्मार्त्तो द्विधा द्विजैः दानाग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ॥ स्मार्त्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन् ॥ ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि सा श्रुतिः मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ॥ ततः स्मार्त्तः स्मृ तो धर्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥ इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ॥ इति मात्स्ये १२० अध्यायः ॥ अपि च । अधिकरणमालाकृन्माधवाचार्य्य- धृतपराशरभाष्ये शातातपः । “श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत् अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥” इति तिथ्यादितत्त्वम् ॥



Correction: