वाचस्पत्यम्
श्वन् || पु० श्वि—कनिन् नि० । कुक्कुरे तज्जातिस्त्रियां ङीप् नी ।
शब्दकल्पद्रुमः
श्वा || [न्] पुं, (श्वयति गच्छतीति । श्विगतौ + “श्वन् उक्षन् पूषन्निति ।” उणा० १ । १५८ । इति कनिन्प्रत्ययेन साधु ।)
कुक्कुरः । तत्- पर्य्यायः । “कुक्कुरः श्वा च भषकः शुनको मृगदंशकः । कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥ “कुक्कुरो दीर्घसुरतः श्वानो ग्राममृगोऽपि च । वक्रपुच्छः शयालुः स्यात् शरत्काम्यरतत्रपः ॥ औषधादियोगितः श्वा स्यादलर्क्कोऽप्यलर्क्ककः । मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ॥” इति शब्दरत्नावली ॥